________________
भूमिका |
३३
व्याख्याताः ] पञ्चैव देवरव्रज्यायां गाथाः सन्ति, नेयम् । आर्यायां तु देवरेण सह पलालपुोपरि सुरतमेव सूचितम् -
दलिते पलालपु वृषभं परिभवति गृहपतौ कुपिते । निभृतनिभालितवदनौ हलिकवधूदेवरौ हसतः ॥ ३०२ ॥
स्पष्टमुदीरणायां तु निवदेनीयं भवेत् यदार्यासप्तशतीचित्रितः शृङ्गारो विलक्षण एव । प्राकृते निर्भरः शृङ्गारो भवत्यत एव तत्र सुरसतासंपादनं सुकरम् । संस्कृते तत्कठिनम् । वाणी प्राकृतसमुचित० ५२ ( आर्या० ) इति । एवं स्पर्द्धापारवश्येन गोवर्द्धनाचा - र्यमहाभागास्तथा व्यग्राः समभवन् यश्चरित्रादर्शविषये तेषां दृष्टिरेव नापतत् । एतचित्रिता नायकनायिका निर्मर्यादं खेलन्ति । यत्र स्पष्टमेव मुखतः प्रोच्यते- 'स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः' ८७, तत्र शृङ्गारान्धता स्पष्टमेव साधारणे - नापि परिज्ञेया । विश्वनाथस्तु परकीयायां नायिकायामाभासमेव मन्यते शृङ्गारस्य, परमास्तां तावानुश्च्च आदर्श: । अस्तु परकीयापि नायिका, परं तत्र 'रस' ता न व्याहन्येत, औचित्यं नातिक्राम्येत्, स्पष्टमादर्शो नाधः पतेत्, अश्राव्यत्वं न भासेत, एतत्त्ववश्यमनुसंधातव्यं भवेत् । सिद्धान्तः किल साहित्यमार्मिकाणाम् -'औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ।' निजभर्तृतो विरक्ता अन्यस्मिन्दयितेऽनुरक्ताः स्त्रियो गाथाखपि वर्णिता एव । परं यन्मरणम्, अमङ्गलाश्वीलमिति कृत्वा कस्यचिदपि स्पष्टं न वक्तव्यं भवति, तत्र पत्न्या एव मुखात्स्पष्टं पत्युर्मरणकामना किमुचिता प्रतीयते ?
तिमिरेपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च । शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ २७४ ॥
'गृहपतिशिरसा सह स्फुटतु' इति किमश्राव्यं न प्रतीयते ? इयमपि 'नायिका' नाम ? अयमपि च शृङ्गारः ! ! 'शृङ्गारोत्तरसत्प्रमेय रचनैराचार्य गोवर्द्धनस्पद्ध कोपि न विश्रुतः' इति पद्यखण्डं पुनर्मनस्यावर्तते !
रस्राकुलिताः खयमाचार्यचरणास्तेषां नायको वा वक्तिअसती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् । कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥ ७० ॥
गाथास्वाचारोलङ्घनं नास्ति नेदमहं वच्मि । मन्मतेन, यत्किल वैगुण्यं तदग्रतः स्पष्टी - करिष्यामि । परमेवंविधा उत्कटा उक्तयः सर्वस्यामपि सप्तशत्यां नोपलभ्येरन् । यत्र किल चरित्रवैगुण्यं तन्मताद्भासते तत्र हि गाथाकारः स्फुटम् ' असती' प्रभृति पदं निर्दिशति । यथा---
अयि गृहपते गतो नः शरणं रक्षैनमिति भणन्त्यसती । सहसागतस्य तूर्णं स्वभर्तुरेव स्वजारमर्पयति ॥ ३९७ अयमागतोद्य नः किल कुलगेहादिति हि जारमसती स्वम् । सहसागतस्य पत्युस्त्वरितं कण्ठे नियोजयति ॥ ४१ इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org