________________
३२
भूमिका ।
परिहरन्ती सुविदग्धतया तदेतच्चरित्रं चित्रयति । भ्रातृजाया देवरेण सह परिहासं करोति – 'अयि देवर आकाशे अर्द्धचन्द्रदर्शनार्थं किमिति व्यप्रोसि । निजपढ्याः स्तनतटे अर्द्धचन्द्राणां परम्परामेवावलोकय । —
किमयि न देवर पश्यसि किं वाकाशं मुधा प्रलोकयसि । जायाया भुजमूले परिपाटीमर्द्धचन्द्राणाम् ॥ ७० ॥
दृश्यतां कीदृशी वैदग्ध्यपूर्णा नर्मोक्तिः ! 'गोपनीयोपि ते प्रियतमा समागमः स्फुटमस्माभिर्लक्ष्यते, अहो ते वैदग्ध्यम् !' इति कीदृशो गूढः परिहासः । अप्यत्र अनौचित्यस्य विलोक्यते छायापि ? निपुणनागराणामपि गृहे देवरभ्रातृजाययोः प्रसिद्धः किल परस्पर परिहासः । होलिका महोत्सवस्य तु इमावेव अधिदेवतारूपेण विराजेते सर्वत्र ।
गाथासु बहयो भ्रातृजायास्त्वेवंविधाः सन्ति या अनुचितपरिहासलग्नं देवरमपि सुमार्गे आनेतुं यतन्ते
कुड्यलिखितानि दूषितमनसो ननु देवरस्य कुलयोषित् । दिवस कथयति रामानुलग्नसौमित्रिचरितानि ॥ १।३५ नववयसो या नैतत्कर्तुं प्रगल्भन्ते ता वराक्यः कस्याप्यग्रे खदुःखमप्रकाशयन्त्यो मनः क्लेशात्कृशा भवन्ति---
प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृशचित्ते ।
न वदति कुटुम्बविघटनभयेन तनुकायते खुषा किन्तु ॥ ११५९ अविकलं लोकचरित्रानुसरणार्थं कुत्रचित्प्रणयोपि वर्ण्यते, परं व्यञ्जनया । न ह्यत्र ग्राम्यधर्मस्य स्पष्टं प्रतीतिर्भवेत्कस्यचित्—
सत्यं हि कथय देवर तथा तथा चाटुकारकेण शुना । निर्वर्तितकार्यपराङ्मुखत्वमिह शिक्षितं कस्मात् ॥ ७८८ नवलतिकाऽऽहतिमिच्छति यतो यतोङ्गेषु देवरों दातुम् । रोमाञ्चदण्ड राजिस्ततस्ततो दृश्यते वध्वाः ॥ १।२८
अत्र हि रोमाञ्चोद्गमेन देवरप्रणयोऽनुमीयते न किंत्वन्त्र ग्राम्यधर्मसंकथा | भोजमतेन सेयं 'चूतलतिका' नाम्नी क्रीडा । अत्र हि 'कस्ते प्रियतमः' इति पृच्छद्भिर्लताद्वारा प्रिय जनो हन्यते । एवं सति सा घटनैव परिवर्तते ।
9
अस्तु एवं किल देवरविषयिकाः पञ्च गाथाः । यद्यपि - 'पृष्ठं प्रोञ्छ कृशोदरि ० ' ४।१३ इति गाथा देवरोक्तौ योज्यते, परं तदिदं टीकाकाराणां हस्तलाघवम् । मूले हि'हे कृशोदरि ! गृहपृष्ठे अङ्कोटतरुतलजातरतिसूचकं पृष्ठं प्रोञ्छ । अन्यथा विदग्धा देवरस्त्रियो ज्ञास्यन्ति । अन्ये गृहपुरुषा न जानीयुः, परं त्वत्समवयस्का देवरस्त्रियः स्त्रीस्वभावात्तवेममभिसारं परिजानीयुः ।' अत्र हि देवरेणैव सह रतिरभवदिति क्व मूलकृता प्रोक्तम् ? अत एव साधारणदेवकृतरत्नावलीटीकायां [ यत्र हि व्रज्याक्रमेण गाथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org