________________
भूमिका । साहित्यकारैः कविमिश्च रतिस्तु दूरे, द्वयोर्विस्पष्टेच्छापूर्वकमङ्गपरामर्शोपि विरलस्थले. म्वेवावर्ण्यत । परम्-आर्याकारस्य मते दृढे मानेपि, स्पष्टमनुनयतिरस्कारेपि इन्द्रियोत्तेजनां तु परिसमाप्यैव नायिकानायको विश्राम्यतः! आर्या-गाथयोरनेनैवादर्शः स्थिरीकर्तुं शक्येत।
नायिकानायको द्वावपि परस्परविच्छेदस्यासहनतया मनसि मन्दीभूतमानौ स्तस्त. थापि 'पूर्वमयमेव मामनुनयेत्' इति परस्परप्रतीक्षया शयनीये मिथ्यैव निद्राभिनयं दर्शयन्तौ तिष्टतः, किन्तु द्वावपि स्वस्वनिःश्वासशब्दमवरुद्ध्य अन्यं प्रति दत्तकौँ प्रतीक्षेते यत् 'इदानीमनुनयार्थमुद्योगो भवेत्' । हृदयान्तः, एवंविधं मानशैथिल्यं यत् अनुनयार्थ वागारम्भणस्य का कथा, यदि हस्तस्याङ्गुल्यग्रेणापि मनाक् स्पर्शः क्रियेत तदापि 'प्रथमं स्वत्कृतेनानुनयेनैव मे मानमोक्षः' इति मिषमादाय मानसमाप्तिः संमुखोपस्थितासीत् ! परम्-'अपरपक्षत एव अनुनयः प्रथमं भवेत्' इति, सूत्रमादायैव द्वावप्यन्योन्यस्य शक्तिपरीक्षां कुर्वन्तौ तिष्ठतः । कीदृशीयमनुभवैकवेद्या सहृदयैकचित्रणीया दम्पत्योर्मानघटनास्ति, पश्यत गाथा कथमेतां चित्रयति
प्रणयकुपितयोरुभयोरपि मानवतोरलीकनिद्रितयोः । निभृतनिरुद्धश्वासाऽवहितश्रवसोर्नु को मल्लः ॥ १२७ इदानीमा प्रति दृष्टिीयताम् । अहिलमानयोयोरपि मानस्तादृगवस्थ एव । मानो वा तस्य मर्यादा वा दूरे क्रन्दति किन्तु द्वयोम्यधर्मस्तु संजात एव !
निशि विषमकुसुमविशिखप्रेरितयोर्मोनलब्धरतिरसयोः।
मानस्तथैव विलसति दम्पत्योरशिथिलग्रन्थिः ॥ ३२७॥ मानः अशिथिलग्रन्थिः, किन्तु अमानः [अपरिमाणः ] मकरकेतनस्तु कृतकर्तव्य एव । अहो धन्यो मानः !
गाथासप्तशती हि ग्रामे भवाः प्राकृतघटना एवाधिकं वर्णयतीति पूर्वमुक्तं वक्ष्यते च । एतस्याश्चित्राणि नातिरजितानि सर्वाण्येव प्रायः स्वाभाविकानि । यथा लोके विलोक्यते तथैव सेयमयति । अयमेवार्थः खतः संभवीति साहित्यनिबन्धकारैर्व्यपदिश्यते । अत एव प्रामवासिनामाचारानपि सेयं यथोपलब्धानेव चित्रयति । देवरभ्रातृजाययोश्चरित्रविषये 'नूपुरौ त्वभिजानामि नित्यं पादाभिवन्दनात्' इति रामायणीय आदर्शो ग्रामवासिषु नावलोक्यते । ग्रामवासिनीनां प्रणयगीतानि 'देवरिया' मुद्राङ्कितान्येव बहुशः श्रूयन्ते । अत एव गाथासु देवरप्रजावत्योः परस्परं प्रणयपरिहासोपि प्रकृत्यनुकारितयाऽ. वलोक्यते । यद्यपीदं ग्राम्यचित्रम् , तथापि तदिदं निपुणनागरेष्वपि बहुत्र दुर्लभं भवेत् । अत्र हि गाथाकारेण परमविदग्धतायाः परिचयः प्रादायि । ब्रजभाषाकविना श्रीमता विहारिणा गाथानुकारेण देवरप्रणयो वर्णितः परं हरिप्रकाशादितट्टीकासु स्थाने स्थाने औचित्यानौचित्यविचारो विवशतया निबन्धनीयोऽभवत् । गाथा त्वनौचित्यं प्राचुर्येण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org