SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भूमिका । गोवर्द्धनाचार्यचित्रितमन्यदप्यौचित्यमाचम्यतां किञ्चित् । उपरितः करयोः चरणयोः - काव्याः हारस्य चाविरतं प्रहारा वर्षन्ति । परं नायकपुङ्गवो नायिकाया उपर्यापतित एव — करचरणकाञ्चिहारप्रहारमविचिन्त्य बलगृहीतकचः । ३० प्रणयी चुम्बति दयितावदनं स्फुरद्धरमरुणाक्षम् ॥ १७० ॥ एवं प्रहार मुशलवर्षायामपि बलात्केशेषु गृह्णतो भर्तृमहाभागस्य 'प्रणयि' पदेन व्यप'देशः केवलं पतिपर्यायतयैव । अन्यथा 'बलगृहीतकचः' इत्यनेन बलात्स किल प्रणयिभावोऽपसार्यत एव । सत्यं त्वेतत्-यदार्यासप्तशत्यां दम्पत्योर्मध्ये निःखार्थप्रेमघटनाः परिगणनीया एव विलोक्येरन् । अधिकांशेष्वासङ्ग लिप्सैवान्तस्तले प्रबला प्राप्येत । एतद्विपरीतं गाथासप्तशत्यामासङ्गलोलुपता अतिन्यूनतमैवालोक्येत । गाथायां प्रवत्स्यपतिका प्रातर्गमिष्यन्तं दयितमाकर्ण्य भविष्यन्त्या विरहवेदनया साम्प्रतमेव दुःखमनुभवन्तीव सर्वं केलिविलासादिकं नाभिरोचयति । 'अस्या रात्रेरवसानमेव न भवेत् ' एतदेवैकान्तचित्ता सा निशि भावयति pag कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रुतं जनतः । भगवति वर्द्धख निशे तथा, यथा कल्यमेव नोदेति ॥ १।४६ प्रवत्स्यत्पतिकायास्तमेनं प्रणयातिशयं कामवासनायाः सुदूरीकृत्य अलौकिकमिव चित्रयितुमिच्छति कविः । प्रवासं गमिष्यन्दयितो यदा 'यामि' इति मां प्रक्ष्यति, तस्मिन्काले दुःखभाराकुलं मे जीवितं कथं स्थास्यतीत्येव सा हृदये चिन्तयति - भाविपथिकस्य जाया ह्यापृच्छनजीवधारणरहस्यम् । पृच्छन्ती प्रतिगेहं भ्रमति प्रियविप्रयोगसहशीलाः ॥ १४७ - गाथाचित्रितानां नायिकानां प्रियप्रवासस्य प्रथमरात्रौ नैतादृशी प्रचण्डतमा इन्द्रियोत्तेजना भवति यत्सम्पूर्णेपि प्रवासकाले भाविनीं सुरतानन्दकृतां त्रुटिमद्यैव पूरयेमेति विचारोप्युद्भवेत् । परम् आर्याचित्रिता नायिका प्रवासस्य प्रथमरात्रौ प्रवासावधिदिनानां समग्रमपि सुरतविषयकमायव्ययजातम् ( हिसाब ) समीकृत्यैव विश्राम्यति - मयि यास्यति, कृत्वावधिदिनसंख्यं चुम्बनं तथाऽऽश्लेषम् । प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥ ४३२ ॥ हन्त ! रजनी तावद्दीर्घा नाऽभूदन्यथा कतिपयमासानामेतदृणशोधनं कृत्वैव प्रवासि - महोदयस्य गमनमभविष्यत् । दृश्यताम् - गाथावत् अत्रापि रजनीलाघवमनुशोच्यते । परम्-उभयत्र भावनाया भेदः । एकत्र विरहकातरता कारणम् । अपरत्र 'एतावतो चारान् सुरतानि नाऽभवन्' इत्येतदनुशोचनम् । आसङ्गलिप्साप्रचण्डाया आर्याकारलेखन्यास्तावान्प्रभावो यट्टीकाकारवराकेण स्थाने स्थाने 'स्त्रीणां रतेऽत्यन्तं प्रीतिरिति भावः ' इति विवशता लेखितव्यमभवत् । आर्याकारलेखनीचित्रितौ नायकौ तथा कामविवश यथा मानमर्यादामपि विस्मरतः । यस्य किल नाम मानः [ प्रणयरोषः ], तत्र सर्वैरपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy