________________
भूमिका ।
इति सहसागतस्य पत्युरप्रतो जारस्य निह्नवमात्रं वर्ण्यते । किन्तु आर्याकारेण चौर्यरतस्य पराकाष्ठा दर्शिता । एष हि नायिकाया मुखादेव श्रावयति
श्रोणी भूमाव प्रियो भयं मनसि पतिभुजे मौलिः । गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥ ५६८ ॥ अन्धकाराच्छन्ने भवने शयाना पतिमहाशयस्य भुजमुपधानीकृत्य निभृत निलीनमुपपतिमङ्के वहन्ती सुरतोत्सवमनुभवति, खर्गमपि च तृणीकरोति !! सत्यमेव तादृशीनां स्वर्गे दूरतस्तिरस्कार्य एव ! धन्यो गोवर्द्धनमहाभागस्य शृङ्गारः ! 'शृङ्गारोत्तरसत्प्रमेयरचनेराचार्यगोवर्द्धनस्पद्ध कोपि न विश्रुतः ! !'
ग्रामनायकस्य तनयया सह हालिकनन्दनस्यासक्तिर्वर्ण्यते गाथायाम् - मन्दमपि हलिकनन्दन इह दग्धग्रामके न जानाति । निर्वैद्येकं ब्रूमो गृहपतितनया विपद्यते चाद्य ॥ ६ १०० ग्रामणीवनितापि हालिकसुते कस्मिंश्चिदनुरज्यति या हि परितुष्य प्रणयिने पाट-लापुष्पाणि प्रयच्छति । तद्रातृजाया च ग्रामे दुर्लभैः पाटलापुष्पैर्देवरस्य ग्रामनायकह्रासक्तिमनुमिनोति ।
बहुपाटलं च शीर्षे न सुन्दरं देवरस्यैतत् ॥ ५/६९
आर्याकारमहाभागस्तु प्रामनायकस्य वध्वा सह शून्यदेवालयवासिनो भिक्षुकस्यासक्ति. वर्णयामास -
२७
भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन ।
रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ॥ ४१५ ॥
'देवालये मयैकाकिना स्थीयते तत्र त्वयागन्तव्यमिति ग्रामणीवधूं प्रति ध्वन्यते' इति तट्टीकाकारमद्दाभागः । अहो धन्यं शृङ्गारे औचित्यपरिपालनम् !
गाथायां नायिकाया विवसनदर्शनं सकृद् वर्णितम्, तदप्यतिवैदग्ध्येनआश्चर्यमिव च निधिरिव दिवि राज्यमिवामृतस्य पानमिव । आसीन्मुहूर्तमिह नस्तद्विवसनदर्शनं तस्याः ॥ २२५ आर्याकारस्त्वतिस्फुटं नमशृङ्गारवर्णनं वारं वारमावर्तयति
अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् । चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥ ६४ ॥ अतृप्तः पुनर्वर्णयति
निर्भरमपि संभुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि । जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥ ३१९ ॥ पुनरपि न तृप्यामीति जल्पन् वर्णयामासलिप्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः । दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥ ५६९ ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org