________________
२८
भूमिका ।
पुनरप्यतृप्तस्तद्दर्शनेनैव निर्वाति
ईर्ष्याषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः । च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ १४४ ॥
गाथायां स्पष्टं रतिवर्णनं प्राकृतभाषामयत्वेपि न कुत्रचिदवलोक्येत । परम् आचार्य - महाभागस्य तथा नागरिकता यथा स्पष्टं ग्राम्यता प्रतीयते
-
वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि । सन्मैत्रीव श्रोणी परं निदाघेपि न विघटिता ॥ ५२० ॥
मानग्रहिलाया नायिकायाश्चरणप्रणामेनानुनयो यथा रसिकसमाजे समाहतो विलो - क्यते तथैव अधीरया नायिकया कृतं ताडनमपि कविसमयसिद्धमिव इच्छया अनिच्छया वा अनादिकालादारभ्यैतदवधि सर्वैरप्यूरीकृतम् । अन्यान्येषु शृङ्गारविषयेष्वति -- शयं दर्शयन्नपि गाथाकारोस्मिन्विषये अतिसमञ्जसतया व्यवहरति । स हि नायिकाकर्तृकं ताडनं सकृत् निबध्नाति, परम् असमञ्जसतादोषो नैनं मनागपि स्पृशति - एकं प्रहार खिन्नं मुखमरुता वीजयन् हस्तम् ।
सोपि हसन्त्या कण्ठे मया गृहीतो द्वितीयेन ॥ १८६
Jain Education International
नायिका येन हस्तेन स ताडितस्तं प्रणयातिशयाद्वा, अपराधक्षमापनाय वा, नायिकामीदृशकर्मतो हेपयितुं वा नायक : - 'अतिनिष्ठुरस्य मे ताडनात्तव करे पीडा जाता भवेत्' इति कृत्वा तं मुखमारुतेन फूत्करोति । इदानीं प्रणयाद्वा, कोपशान्तिवशाद्वा, कौतुकस्योत्तरे कौतुकाद्वा, नायिकापि द्वितीयेन करेण तं कण्ठे आलिलिङ्ग । सर्वाप्यसमअसता आलिङ्गनपाशे निबद्धा सती मूकमुखा बभूव । किश्च प्रहारपीडितस्य हस्तस्य मुखमारुतेन फूत्करणं स्पष्टमेव नायिकाया बाल्यचापल्यं साधयति । बालानां हि चक्षुरादिषु आघातजनितायां पीडायां जातायां फूत्कारप्रतारणेन तदाश्वासनं सुप्रसिद्धं लोके । एवं च तदिदं ताडनं कौतुकमात्रीभवत् न कस्याप्यरुन्तुदं भासेत, प्रत्युत कण्ठग्रहणाध्य• वसायेन 'मधुरेण समाप्ति' सूचयति ।
गाथातोऽनन्तरभाविनि मुक्तककाव्ये अमरुकेण तदिदं ताडनं किञ्चिदतिरञ्जितम्कोपात्कोमललोलबाहुलतिकापाशेन बढ्ढा दर्द
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । भूयोप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निहुतिपरः प्रेयान् रुदत्या हसन् ॥ ८ ॥ शनैः शनैः करस्य स्थाने पदेन ताडनमप्यनेन महाराजेनोपनिबद्धम् - सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च | क्षितं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्य चिह्नमिव मूर्ध्नि पदं विरेजे शनैः शनैरेवंविधताडने रसिकतया बहुमानबुद्धिरप्युपनिबद्धा
For Private & Personal Use Only
www.jainelibrary.org