________________
भूमिका ।
---
नायकदत्तायां मालिकायां नायिकाया बहुमानमाह गाथाकार:भवता स्वहस्तदत्तां निर्गन्धामपि हि सुभग साद्यापि । अवमालिकां विसर्जितनगरी गृहदेवतेव वत वहति ॥ २९४ आर्याकारोपि तदेतन्निजुगुम्फ
अपनीत निखिल तापां सुभग 'स्वकरेण विनिहितां भवता । पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥ ४६ ॥
२६
प्राकृतभाषायां शृङ्गारविषये बहुत्र प्रायो निर्मर्यादतापि संजातेति पूर्वमुक्तवानस्मि, अग्रेपि च निदर्शयिष्यामि । परम् औचित्यसारां संस्कृतसरस्वती माददानोपि गोवर्द्धनाचार्यस्तां निर्मर्यादतामप्यक्षिणी निमील्य केवलमनुचकारैव न किन्तु ततोप्यप्रसरो बभूवेति स्थाने स्थाने तचिह्नमवाप्यते । गाथासु अतिरसाकुलितानां कामुकानां पुष्पवत्या सह रतिप्रार्थनं स्पर्शलौल्यं च वर्ण्यते, किं त्वतिविदग्धतया । न तत्र प्रत्यक्षमा सङ्गः संदर्श्यते । यथा—
यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम् । पुष्पवतीदर्शनमिह ददाति हृदयस्य निर्वृतिं तदपि ॥ ५/८०
अत्र हि अतिप्रणयिना, पुष्पवत्या अपि प्रेयस्या अवलोकनं सुखावहमेतन्मात्रमुच्यते । स्पृशसि न यदि पुष्पवतीं तिष्ठसि तत्किमिति वारितः पुरतः । स्पृष्टोसि नः कराभ्यां धावित्वा चुलचुलायमानाभ्याम् ॥ ५।८१ अत्र, यदि पार्श्वदेशं न त्यजसि तर्हि एषा त्वां स्पृशामीति केलिपरिहासः प्रोच्यते । लोकस्ताम्यति ताम्यतु, वचनीयं भवति भवतु तन्नाम । एहि विनिमज पार्श्वे निद्रा मे नैति पुष्पवति ॥ ६ २९ `इत्यादिषु रतिप्रार्थनं सूच्यते । किन्तु गोवर्द्धनः स्पष्टमाह
मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च व्रीडा । आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥ ४२८ पत्युः समक्षं कपटचेष्टया उपपतिगृहगमनं वर्ण्यते गाथायाम्पतिपुरत एव नीता वृश्चिकदष्टेति जारवैद्यगृहम् । निपुणसखीकर विधृता भुजयुगलान्दोलिनी बाला ॥ ३३७ आर्यायां तु
गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् । प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥ १९७ ॥ इति पत्युश्चक्षुषोरत एव नायिकाया निःश्वासानुभावोपि दर्शितः । गाथायाम्अयमागतोद्य नः किल कुलगेहादिति हि जारमसती स्वम् । सहसाऽऽगतस्य पत्युस्त्वरितं कण्ठे नियोजयति ॥ ४१
Jain Education International
_
For Private & Personal Use Only
www.jainelibrary.org