SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भूमिका । प्रोषित पतिकाया अपि ते दिन निद्रा रात्रेः परपुरुषसुरतं सूचयतीत्युक्तं गाथायाम्अतिदीर्घास्वविनिद्रा त्वमसि भृशं हैमनीषु रजनीषु । सुचिरप्रोषितपतिके न सुन्दरं यद्दिवा स्वपिषि ॥ १६६ आर्यायामप्ययमर्थः इयमुद्गतिं हरन्ती नेत्र निकोचं च विदधती पुरतः । न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥ १०७ ॥ संकेतस्थलगमनचिह्नभूतं जम्बूदलं नायकसविधे दृष्ट्वा संकेते न प्राप्ता नायिका विषीदति- श्यामाया मुखशोभा श्यामति नयनार्द्धसमवलोकिन्याः । जम्बूदलकृतकर्णवतंसे हलिकात्मजे भ्रमति ॥ २८० आर्यायामपि नायककरे आम्राङ्कुरं दृष्ट्वा नायिका मूर्च्छति - कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति । करकम्पितकरवाले स्मर इव सा मूच्छिता सुतनुः ॥ १९० ॥ एतदनुहारि 'ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरी' त्यादि पयं तु प्रसिद्धमेव । दम्पत्योः समसुखदुःखता यथा गाथायां प्रोक्ता समसुखदुःखसमितयो रूढप्रेम्णोस्ततस्तु कालेन । दम्पत्योम्रियते यो जीवति सोऽन्यो मृतो भवति ॥ २४२ तथा प्रोच्यते आर्यायामपि - निष्कारणापराधं निष्कारणकलहरोषपरितोषम् । सामान्य मरणजीवन सुखदुःखं जयति दाम्पत्यम् ॥ ३३४ ॥ पूर्वं मुक्ताः सुन्दर्याः केशाः, पश्चाद्धम्मिल्ले भाविनो बन्धनस्य भयेनेव बिन्दुच्छलेन रुदन्तीति स्नानसमये वर्णितं गाथायाम् प्राप्तनितम्ब स्पर्शाः श्यामाङ्गयाः स्नानलन्नायाः । बन्धस्येव भयेन हि रुदन्ति जलबिन्दुभिश्चिकुराः ॥ ६५५ आर्यायां तु बन्धनोत्तरं केशकलापस्य हृदयं विदीर्ण मित्युच्यतेबन्धनभाजो मुष्याश्चिकुरकलापस्य मुक्तमानस्य । सिन्दूरित सीमन्तच्छलेन हृदयं विदीर्णेमिव ॥ ४०४ ॥ नायिका हंसीवेत्युपमा यथा गाथायाम् - निपिबति कर्णाञ्जलिभिर्जनरवमिलितमपि हि तव संलापम् । दुग्धं जलसंमिलितं सा बाला राजहंसीव ॥ ७७६ तथा- त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया । हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥ २५९ ॥ सं. गाथा. 3 २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy