________________
२४
भूमिका। परं मृगमिथुनस्य मिथोनुरागवर्णनस्य परा काष्ठेव गाथायाम्--
अन्योन्यरक्षणाय प्रहारसंमुखकुरङ्गमिथुने हि । व्याधेन मन्युविगलद्वाष्पविधीतं धनुर्मुक्तम् ॥ ७।१ एतस्य व्याख्या, ध्वनिचमत्कारश्च ग्रन्थान्तरवलोकनीयः । कस्यांचिदनुरक्तस्य निजदयितस्य विरहवेदनातिशयं दृष्ट्वा सपन्यपि तत्पक्षपातिनी भवतीत्याह गाथा
सुन्दरि तथा कृते तव हालिकपुत्रः सुमहिलः क्षीणः । दौत्यं यथास्य पल्या प्रतिपन्नं मत्सरिण्यापि ॥ ११८४ आर्यायां तु दयितप्रियाया नायिकाया विरहवेदनादर्शनात्सपत्न्यस्तत्पक्षगा भवन्तीत्युच्यते
प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहमङ्गभीताभिः॥३८०॥ मानिनी नायिका विकलं खहृदयमामन्त्रयते गाथायाम्दह्यस्व दासे चेत्स्फुटसि स्फुट पच्यसेऽथ पच्यस्व । हृदय गलितसद्भावः परिशेषित एव स खलु मया ॥ ५॥१ आर्यायामपि दृश्यताम्प्रियदुनयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाध्यम् ।
तत्केलिसमरतल्पीकृतस्य वसनाश्चलस्येव ॥ ३७७॥ अन्यदयितासमागमेपि पूर्वपल्याः स्मरणं भवत्येवेति प्रोक्तं गाथायाम्हृदये प्रियाऽऽस्खलति किल रममाणस्यान्यमहिलायाम् ।
दृष्टे गुणे तु सदृशे ह्यदृश्यमाने गुणेऽसदृशे ॥ १।४४ आर्यायामप्युक्तम्निहितायामस्यामपि सैवैका मनसि मे स्फुरति। रेखान्तरोपधानात्पत्राक्षरराजिरिव दयिता ॥ ३३७ ॥ अगृहीतानुनयाया मानिन्याः पृष्ठाभिमुखं सुप्तो नायकः श्वासैस्तां खेदयतीत्युक्तं गाथायाम्
उष्णानि निःश्वसन्किल शयनार्धे किमिति मम परामुख्याः । मानसमप्यनुशयतः प्रदीप्य पृष्टं प्रदीपयसि ॥१॥३३ आर्याप्येनमर्थमुपजीवतिकृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीरैः। विक्ष्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥ १५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org