________________
भूमिका । मत्तयोर्गजयोर्मध्यस्थित्या करिण्याः सौभाग्यमन्यापदेशेनोक्तमार्यायाम्सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥ द्वयोरेकस्याः प्रणयवर्णनौचित्यं खत एव परीक्ष्यम् । किञ्च-मत्तवृषशृङ्गकोट्या नय. नसदृशस्य मर्मस्थलस्य कण्डूयनमधिकमार्मिकम् उत भत्तयोर्मध्ये गमनमात्रमित्यपि च -सूक्ष्ममीक्षणीयम् । रागभृते हृदये वसन्नपि न रक्तोसीति अनुरक्तया नायिकया अननुरक्तो नायक उपालभ्यते गाथायाम्
धवलोसि यदपि सुन्दर तदपि तु मम रञ्जितं हृदयम् ।
रागभृतेपि च हृदये सुभग विनिहितो न रक्तोसि ॥ ७।६५ __ अनुरक्तस्य तस्य हृदये वसन्यपि न रक्तासीति अननुरक्ता नायिकोपालभ्यत आर्यायाम्
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य । बाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥ ६५५ ॥ अनया शैल्या नायकोप्युपालब्धःसा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥ ६३९ ॥ गच्छन्तं नायकं वृति विवरदत्तनयनतया पश्यन्ती नायिका वर्णिता गाथायाम्एकैकवृतिवेष्टनविवरान्तरदत्ततरललोचनया । व्युत्क्रामति वाल त्वयि पारशकुनायितं हि तया ॥ ३२० आर्याकारोपि तां वर्णयति
वृति विवरेण विशन्ती सुभग त्वामीक्षितुं सखीदृष्टिः । हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ॥ ५४४॥ त्वयि सर्पति पथि दृष्टिः सुन्दर वृति विवरनिर्गता तस्याः।
दरतरलमिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥ व्याधेन बाणलक्ष्यीकृताया हरिण्या मरणसमयेपि प्रियं प्रत्येव दृष्टिगमनं वर्णितं गाथायाम्
आकर्णाकृष्टनिशितभल्लकमर्माहतहरिण्या । भविता ह्यदर्शनः प्रिय इति तु वलित्वा चिरं दृष्टः ॥ ६९४ आर्याकारोपि तमिममर्थमवतारयतिदृष्टयैव विरहकातरतारकया प्रियमुखे समर्पितया । यान्ति मृगवल्लभायाः पुलिन्दवाणार्दिताः प्राणाः ॥ २८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org