SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भूमिका । प्रहृतिव्रणकिण विषमे कृच्छ्राजायाऽस्य निद्रितं लभते । स्वपिति पुनः पल्ली सा सुखमुरसि ग्रामणीसूनोः ॥ १।३१ आर्या द्वयोरपि सुखशयनमाह २२ विविधायुधव्रणार्बुद विषमे वक्षःस्थले प्रियतमस्य । श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥ ५९६ ॥ 'याहं त्वय्यनुकूला तस्यां त्वमननुकूलः, या च सपत्नी त्वयि विरक्ता तस्यां कं राज्यसी'ति नायकमुपालभते गाथाद्वये नायिका 'सा ते प्रिया त्वमसि मे, तस्या द्वेष्यस्त्वमस्यहं ते च । बाल ! स्फुटं भणामः प्रेमेदं बहुविकारमिति ॥ २२६' 'द्वेष्योसि हन्त यस्याः पांसुल सा वल्लभा तवाभ्यधिकम् । इति विज्ञायापि मया दग्धप्रेम्णे न चेष्यितं जातु ॥ ६।१० इममुपालम्भमप्युपजिजीवार्या या दक्षिणा, त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् । जलधिरिव मध्य संस्थो न वेलयोः सदृशमाचरसि ॥ ४८० ॥ पुरुषायितबन्धे श्रान्तां कान्तां नायकः सहासमाह - शिखिपिच्छलुलितकेशे निमीलितार्थाक्षि वेपमानोरु | दरपुरुषायितविश्रमशीले पुंसामवेहि यद्दुःखम् ॥ १५२ आर्यायामप्युच्यते— वक्षः प्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघ । सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥ ५२९ ॥ वामाक्षिस्फुरणेनानुमितकान्तागमनह प्रोषितपतिका आगते प्रिये वामनयनाय पारितोषिकं प्रतिजानीते गाथायाम् स्फुरिते वामाक्षि त्वयि यद्येष्यति स प्रियोद्य तत्सुचिरम् । संमील्य दक्षिणं तत्प्रेक्षिष्येहं त्वयैवैतम् ॥ २३७ आर्या तु वामबाहुस्फुरणादनुमितकान्तागमना शुभाख्यायिने बाहवे पूर्वमेक पारितोषिकं दत्ते- प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः । प्रियसङ्गायं स्फुरितां वियोगिनी बामबाहुलताम् ॥ ३४७ ॥ दुष्टवृषभस्यापि शृङ्गे निजनयनपुढं कण्डूयन्त्या गोः सौभाग्यमन्योक्तिविधया प्रोक्तं गाथायाम् प्रकटितमिह सौभाग्यं पश्य गवा गोष्ठमध्ये हि । दुष्टवृषभस्य शृङ्गे कण्डूयन्त्या नयनपुटम् ॥ ५/६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy