________________
काव्यमाला।
त्यामरेणोपभुज्यते, सापि सुकृतकार्योचितेऽतिप्रत्यूष एवेति स्वल्पः खेदस्त्वभूदेवेति अतिपदेन सूच्यते । नैशतुषारमार्जनोत्तरं पुनस्तन्मार्गे तुषारस्याऽपातात् प्रत्यूष एव सुरतसंघटनाभूदित्यनुमीयते । सुनिबिडितफल-पत्र-शाखतया उपरित आच्छन्नत्वेपि तले सुमसृणतिलप्रकाण्डमात्र सत्तया निभृतसुरतस्य पूर्णावकाश इति तिलक्षेत्रादिषु संकेतके कामिनीनां सबहुमानप्रसिद्धिरिति कण्ठाभरणादिमतमुक्तमेव पूर्वम् । 'णइजूरए' इत्यस्य स्थाने 'सण्ढाण जूरए' इति पाठे 'वृषभान्प्रति खिद्यते' निन्दतीत्यर्थः। हरितदीर्घ मार्ग दृष्ट्वा-वृषभा एव क्षेत्रे प्रविष्टा इति तत्खेदाभिप्रायः। सोयं वाच्यमर्यादया । वृषभपदेन सुरतवर्षणशीलकामिजनाभिप्राये तु 'उद्रिका दुष्टाः कामिन एव मत्क्षेने निभृतं प्रविश्य रमन्ते' इति ध्वनिमर्यादया तान्प्रति क्रोधोऽभिव्यज्यते।
परिजृम्भितपञ्चशरप्रभावायां प्रावृषि प्राणप्रियाप्रणयपरवशाः पथिका विप्रकृष्टमपि "पन्थानमपरिगणितपथिपीडाः क्षिप्रमेवापकामन्तीति प्रवीणः कश्चिनिजसहचरमाह
संकेल्लिओ व णिज्जइ खण्डं खण्डं कओ व पीओ छ । वासागमम्मि मग्गो घरहुत्तसुहेण पहिएण ॥ ९४ ॥ [संकोचित इव नीयते खण्डं खण्डं कृत इव पीत इव ।
वर्षागमे मार्गो गृहभविष्यत्सुखेन पथिकेन ॥] संकोचित इव खण्डं खण्डं कृत इव च पीत इव पन्थाः।
पथिकेन नीयते किल गृहभाविसुखेन नवधनागमने ॥ ९४॥ गृहे भावि भविष्यत्सुखं यस्य ईदृशेन, भावि गृहसुखं स्मरतेत्यर्थः। पथिकेन संकोचित इव संक्षिप्तीकृत इत्र, खण्डशः करणेनैकदेशीकृत इव, पीत इव उत्कण्ठातिशयात्सहसैव समापित इव, मार्गो नीयते उल्लङ्घयते। भवने भाविप्रियतमासमागमसुखस्मरणात्सोत्कण्ठेन पथिकेन सुदीर्घोपि मार्गः संप्रति सत्वरं समाप्यत इति भावः । उत्प्रेक्षात्रयेणोत्तरोत्तरं त्वरातिशयो द्योत्यते । निरवशेषो मार्गः संक्षिप्यत इति संकोचनोस्प्रेक्षणेन सूच्यते । खण्डशःकरणेन मार्गस्यैकदेश एव स्थाप्यते, अवशिष्टो लोप्यत इति प्रत्याय्यते । पीत इवेत्यनेन तु-'तथा सत्वरमुल्लङ्घयति यथा द्रवद्रव्यं कश्चित्सहजमेव गलादधःकरोति' इति भूयास्त्वरातिशयो व्यज्यते। 'आगामिसुखमुद्दिश्य पथिकेन मार्गक्लेशमगणयित्वा त्वरया गृहं प्रति गम्यत इति नायको यथा दुःखं न प्राप्नोति तथा नायिकया विधातुमुचितमिति' उत्क्षिप्ताक्षरमर्यादं गङ्गाधरव्याख्यानम् । परनिन्दयैव नन्दद्भिः खलैर्दुर्वचन विशिखैमर्मणि ताड्यमाना काचित्सनिर्वेदं सखीमाह
धण्णा बहिरा अन्धा ते चिअ जीअन्ति माणुसे लोए । ण सुणंति पिसुणवअणं खलाणं ऋद्धिं ण पेक्खन्ति ॥९५।। [धन्या बधिरा अन्धास्त एव जीवन्ति मानुषे लोके । न शृण्वन्ति पिशुनवचनं खलानामृद्धिं न प्रेक्षन्ते ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org