________________
७ शतकम् ]
संस्कृतगाथासप्तशती।
यस्याः सेत्यर्थः । कलमेन सममिति सहोत्या-यदि त्वमेनां वाञ्छसि तर्हि कलमपाकात्पूर्वमेव संभोगसाभिलाषा सेयं सुखसाध्येति साभिलाषं वसुहृदं प्रत्यभिव्यज्यते । शालिरक्षिका प्रति तु-तव पाण्डुमुखतायाः शोषस्य च कारणमवगतं मया । तदेतां चिन्तामपहाय मत्सुहृदमभिलषन्तमनुगृह्णीष्वेति सपरिहासमभिसूच्यते । 'इङ्गितादिभिरप्यनवगम्यः प्रच्छन्नोयं प्रेमप्रकारः' इति सरखती कण्ठाभरणम् ।।
भक्तहारिणीं दृष्ट्वा विचलितचेतसो हलवाहनासक्तस्य पामरस्य चरितं प्रत्यक्षवीक्षकः । कश्चित्सहचरमाह
णवकम्मिएण हअपामरेण दळूण पाउहारीओ। मोत्तबे जोत्तअपग्गहम्मि अवहासिणी मुका ॥ ९२ ॥ [नवकर्मिणा पश्य पामरेण दृष्ट्वा भक्तहारिकाम् ।
मोक्तव्ये योक्रप्रग्रहेऽवहासिनी मुक्ता ॥] नवकर्मिपामरेण हि पश्य सपदि भक्तहारिकां वीक्ष्य । .
योऋप्रग्रहमात्रे मोच्येऽप्यवहासिनी मुक्ता ॥ ९२॥ नवकर्मिणा अनभ्यस्तहलचालनकर्मणा पामरेण सुन्दरी भक्तहारिकां (भोजनानेजीम् ) दृष्ट्वा क्षुभितचित्ततया योक्रस्य 'जोत' इति ख्यातस्य वृषकण्ठावसत्तस्य चर्मपट्टस्य प्रग्रहमात्रे बन्धनमात्रे मोक्तव्येपि अवहासिनी 'नाथ' इति ख्याता नासारज्जुर्मुक्तेति त्वं पश्य । भोजनार्थ विश्रमिष्यता पामरेण हलधुरावयोवृषयोर्योकबन्धनमोचनस्थाने भक्तहारिका प्रति जातव्यासङ्गतया बलीवर्दयो सारजुर्मुक्तेति भावः । नवकर्मीति पदेनअनभ्यस्तकर्मतया हलकर्मणि स्वाभाविकः संभ्रमस्तु पूर्वत एवासीत्, पुनर्भक्तहारिणीहृतचित्ततया जायमानो मोहातिशयो न निरोढुं शक्योभवदिति सूच्यते । पाउहारी भक्तहारीति देशी । 'पाणिहारीओ' इति पाठे पानीयहारिकामित्यर्थः। 'योकरूपे प्रग्रहे मोक्तव्ये अवहासिनी मुक्ता' इति गङ्गाधरः ।
नैशतुहिनभङ्गेन योयं हरितदीर्घो मार्गस्तिलक्षेत्रे वीक्ष्यते स हि सुरतरसिकया कयाचिदभिसारिकया कृत इत्यात्मनो मार्मिकतां प्रथयन् नागरिकः सहचरमाह
दद्ण हरिअदीहं गोसे णइजूरए हलिओ । असईरहस्समग्गं तुसारधवले तिलच्छेत्ते ॥९३ ॥ [दृष्ट्वा हरितदीर्घ प्रात तिखद्यते हलिकः ।
असतीरहस्थमागं तुषारधवले तिलक्षेत्रे ॥] दृष्ट्वापि हरितदीर्घ प्रत्यूषे नातिखिद्यते हलिकः ।
असतीरहस्यमार्ग तुषारधवले तिलक्षेत्रे ॥ ९३ ॥ मैशतुषारेण धवलीभूते तिलक्षेत्रे हरितं दीर्घ च । असत्याः रहस्यस्य चौर्यसुरतस्य मार्ग दृष्ट्वापि हालिको नातिखिद्यते । असतीगमनमार्गस्य हरिततया हरिततिलानामक्षतत्वमालोक्य निजहानेरभावाद्धलिकस्य नातिखेद इत्यर्थः । ममैव क्षेत्रे सुन्दरी काचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org