________________
३५२
काव्यमाला ।
अलिहिजइ पङ्कअले हलालिचलणेण कलमगोवीए । केआरसोअरुम्भणसहिअ कोमलो चलणो ॥९० ॥ [भालिख्यते परतले हलालिचलनेन कलमगोप्याः।
केदारस्रोतोवरोधतिर्यक् (यश) स्थितः कोमलचरणः ॥] अयि केदारस्रोतोवरोधतियस्थितः कलमगोप्याः।
मृदुचरणः पङ्कतले ह्यालिख्यत इह हलालिचलनेन ॥ ९०॥ . अयीति सहचरं प्रति संबोधनम् । केदारस्रोतसा अवरोधनवशात् तिर्यस्थितः । क्षेत्रे जलसंचारार्थ निम्नानि जलस्रोतांसि क्रियन्ते । तत्रोन्नतरेखायास्तावदायामाभावात् उन्नतभागे निहितः कलमगोप्याश्चरणो जलस्रोतोवरोधवशात्तिर्यस्थित एव भवति । तादृशः कलमगोप्याः पङ्के पूर्वतोङ्कितः कोमलश्चरणः पङ्कतले हलालेः हलरेखायाश्चलनेन कर्षणेन आलिख्यते कृष्यते । पूर्ववत्सरे क्षेत्रगतप्रावृट्पकशोषे शालिगोप्यावरणोऽ. ङ्कितः। वर्षान्तरे कर्षणसमये स हि चरणप्रतिबिम्बो नागरेण दृष्टः । तं चरणं दृष्ट्वा 'तदिदं शालिरक्षिकायाः संकेतस्थानम्' इति निजसुहृदं प्रत्युपपादयति । तथा च-ऐषमोपि क्षेत्रस्मिन् कलमोत्पत्तिमारभ्य तत्पाकपर्यन्तं शालिगोपी पान्थादीनां सुलभा स्यादिति तत्प्राप्याशा सहचरं प्रति सूच्यते । 'वर्षाकाले पूर्ववत्सरीयकलमगोपीपदाङ्कितक्षेत्रकर्षणं दृष्ट्वा कश्चित्पान्थ आह' इति गङ्गाधरः । 'तंसटिअ' इत्यस्य 'त्र्यंशस्थितः त्र्यंशेन भागत्रयेण स्थितः, असंपूर्ण इति यावत् ।' इत्यर्थ गङ्गाधर आह । 'यदा पूर्ववत्सरे क्षेत्रमध्यस्थितजलस्य शोष आरब्धस्तदा कलमगोप्याः शालिपाकेन संकेतस्य लाभावरोधेन दुःखोपचये संपूर्णश्चरणो न पङ्कमध्ये प्रतिबिम्बितः' इति तत्तात्पर्यम् । पर "णिहालसपरिघुम्मिरतंसवलन्तद्धतारआलोआ । (२०४८)' इत्यादिषु 'तंस' पदस्य तिर्यगर्थ स्वयमेव स्वीकुर्वतस्तस्य 'व्यश' इत्यर्थकल्पनमाकर्षणमात्रमित्यलम् ।। ____ शालिक्षेत्ररक्षिकां वीक्ष्य साभिलाषं निजसुहृदं प्रति शृण्वत्यो तस्यां कोपि सहृदयः सवैदग्ध्यपरिहासमाह
दिअहे दिअहे सूसइ संकेअअभङ्गवड्डिआसङ्का । आवण्डुरोणअमुही कलमेण समं कलमगोवी ॥ ९१ ॥ [दिवसे दिवसे शुष्यति संकेतकभङ्गवर्धिताशङ्का ।।
आपाण्डुरावनतमुखी कलमेन समं कलमगोपी ॥] दिवसे दिवसे शुष्यति संकेतकभङ्गवर्द्धिताशङ्का ।
आपाण्डुरानतमुखी कलमेन समं कलमगोपी ॥ ९१ ॥ कलमः शाली परिपाकेन पाण्डुः पूर्णतागौरवादानतमुखश्च सन् यथा यथा दिवसे दिवसे शुष्यति, तथा तथा शालिक्षेत्रशोषेण संकेतस्थलापगमचिन्तया आनतमुखी भाविसंभोगविरहशङ्कया पाण्डुर्भवन्ती कलमगोपी प्रतिदिनं शुष्यति । अथवा आपाण्डुरं च आनतं च मुखं यस्याः सेत्यर्थः। संकेतस्थानालाभादप्राप्तसमागमः स मयि मन्दप्रणयः कदाचन न भवेदित्याशङ्काया हेतुः। अथवा संकेतकभङ्गस्य वर्द्धिता आशङ्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org