________________
संस्कृतगाथासप्तशती ।
सच्चं साहस देअर तह तह चडआरएण सुणएन । णिवत्तिअकज्जपरम्मुहत्तणं सिक्खिअं कत्तो ॥ ८८ ॥ [ सत्यं कथय देवर तथा तथा चाटुकारकेण शुनकेन । i निर्वर्तितकार्य पराङ्मुखत्वं शिक्षितं कस्मात् ॥ ] सत्यमुदीरय देवर तथा तथा चाटुकारकेण शुना । निर्वर्तितकार्यपराङ्मुखत्वमिह शिक्षितं कस्मात् ॥ ८८ ॥
तथा तथेति पूर्वकृतनानाविधचाटुप्रकारं प्रति संकेतः । कस्मादित्यनेन - एवंविधः स्वार्थी मम तु प्रश्नविषयीभूत एव, न मया दृष्ट इति निन्दातिशयः सूच्यते । नीचस्य सारमेयस्येव ते तदिदं दुश्चेष्टितमनुचितमिति भावः । ' तथा च त्वत्त एवेदं तेन शिक्षितमिति मत्खत्वं सर्वथा हेयमिति' भावं गङ्गाधर आह ।
ग्रामोत्थप्रभूतधान्यलाभेपि धनसंग्रहार्थं शरदि जिगमिषन्तं ग्रामणीतनयं प्रवासाद्वारयन्ती तत्पत्नी साकूतमाह-
७ शतकम् ]
णिप्पण्णसरसरिद्धी सच्छन्दं गाइ पामरो सरए । दलिअणवसालितण्डुलधवलमिअङ्कासु राईसु ॥ ८९ ॥
[ निष्पन्नसस्य ऋद्धिः स्वच्छन्दं गायति पामरः शरदि । दलितनवशालितण्डुलधवलमृगाङ्कासु रात्रिषु ॥ ] निष्पन्नसस्य संपद् गायति शरदीह पामरः स्वैरम् । दलितनवशालितण्डुलधवलमृगाङ्कासु रजनीषु ॥ ८९ ॥
निष्पन्ना सस्यसमृद्धिर्यस्य तादृशः पामरः कृषीवलोपि, इह अस्यां शरदि कण्डितनवशालितण्डुलवद् धवलो मृगाङ्को यासु एतादृशीषु रात्रिषु निष्प्रतिबन्धं गायति । उपार्जितनिष्पादितेत्याद्यनुक्त्वा निष्पन्नेत्युक्त्या - दैववशादेव सस्यनिष्पत्तिर्जातेति तस्या अस्थिरत्वं सूच्यते । तथा च - अस्थिरां स्वल्पामपि सस्यसंपत्तिमुपलभ्य अधमः कृषिकारोपि मेदुरमृगाङ्कमरीचिभिर्मनुजमनो मादयन्तीष्वासु शरद्यामिनीषु निखिलां विडम्बनामवधीर्य संमोदमनुभवति । प्रभूतवैभवः परमविदग्धोपि च भवांस्तु विरहवेदनाजनकतया संततमशान्तिकरीं क्लेशबहुलां प्रवासिचर्यामधुनैवावलम्बितुमिच्छतीत्य हो भाग्यवैभवमिति निगूढमभिव्यज्यते । शालीनां परिपाके प्रसन्नचेतसः पामरस्य हृदि तण्डुला एवाहर्निशमावर्तन्त इति स्वाभाविकतया तत्साम्यमेवोपनिबद्धम् । तस्या गृहेन्नादिसमृद्ध्या रात्रौ च तस्पतिर्गायतीत्यनेन तत्पतिसांनिध्येन चन्द्रिकाशोभित्वेन च रात्रेरय सान सुखसाध्येति काचित्कंचिद्बोधयति' अथवा 'शरत्काले शालीनां पाके हालिकः स्वगृहे तिष्ठतिं, तदपाके तद्रक्षार्थं स्वयं क्षेत्रादौ तिष्ठतीति हलिकवधूः शरत्कालातिरिक्तकाले सुलभेति कश्चित्कंचिद्बोधयति' इति गङ्गाधरः ।
1
पङ्काङ्कितपादचिह्नानुमानेन क्षेत्रमिदं शालिगोप्याः संकेतस्थलमासीदिति साधनात्खमार्मिकतां ख्यापयन्नागरिकः सहचरमाह
Jain Education International
३५१
For Private & Personal Use Only
www.jainelibrary.org