________________
३५०
काव्यमाला ।
नृत्यसीत्यनेन - एवमवमानेपि यदितस्ततो विचेष्टसे तत्ते नृत्यमिवेति गूढमाक्षेपो ध्वन्यते । मल्लीत्यामन्त्रणमपि साकूतम् - एवमपमानेपि मत्रपत्नीति ख्यातिं वहन्ती त्वं धन्यासीति । आज्ञप्तमित्यनेन दौर्भाग्यमपि तेन केवलं न सम्पादितमेव, किं तु तदपि राज्ञेव तुभ्यं सगर्वमाज्ञप्तम् । ततश्च - एवं सततव्यलीककारिणं रूपगुणानभिज्ञमपहाय अन्यत्र किं नानुरज्यसीति दूत्याभिव्यज्यते । 'काचन सहजसुन्दरी प्रियतमापमानितापि न लज्जिता दौर्भाग्यस्य चिरकालानवस्थायित्वेन हर्षितैवेति तां बोधयन्ती सख्याह' इति गङ्गाधरः । एवमपराधेपि त्वं प्रसन्नेति त्वं क्षमावत्यसीति तत्तात्पर्यम् । अथवा - पत्युर्विरक्तापि प्रसन्नेति स्वसौन्दर्यगर्विता सेयं सुखसाध्येति तटस्थं कामुकं प्रति दूत्याः प्रलोभनोक्तिः ।
चाटुशतैर्नानाप्रलोभनैश्च पूर्वं वशीकृतवतीं ततः स्वल्पकाल एव विरोधवशादपवादं प्रचारयन्तीं दूर्ती प्रति तिरस्कारं सूचयन्ती काचित्सखीमाह -
मा वच्चह वीसम्भं इमाण बहुचाडुकम्मणिउणाणम् । णिवत्तिअकञ्जपरम्मुहाणं सुणआण व खलाणम् ॥ ८६ ॥ [ मा व्रजत विस्रम्भमेषां बहुचाटुकर्मनिपुणानाम् । निर्वर्तितकार्य पराङ्मुखानां शुनकानामिव खलानाम् ॥ ] मा विस्रम्भममीषां व्रजत बहुलचाटुकर्मनिपुणानाम् । पिशुनानां हि शुनामिव निर्वर्तितकार्यविमुखानाम् ॥ ८६ ॥ निर्वर्तिते कार्ये विमुखानाम् अमीषां खलानां विश्वासं मा व्रजत । 'खलस्य वाङ्मा - "र्यमात्रेण विश्वासो न विधेय इति कश्चिदा हेलवतरण पूर्विका 'खल खभावोक्तिरियम्' 'इति' गङ्गाधरटीका ।
ग्रामान्तरं गच्छन्तीमपि बहुभिः कामिभिरनुस्रियमाणां काञ्चिदसतीमालोक्य कापि सपरिहासमाह -
अण्णग्गामपउत्था कट्टन्ती मण्डलाणं रिञ्छोलिम् ।
अक्खण्डि सोहग्गा वरिससअं जिअउ मे सुणिआ ॥ ८७ ॥ [ अन्यग्रामप्रस्थिता कर्षयन्ती मण्डलानां पतिम् । अखण्डितसौभाग्या वर्षशतं जीवतु मे शुनी ॥ ]
पङ्किमिह मण्डलानां कर्षन्ती ग्राममन्यमुपयान्ती । अविखण्डितसौभाग्या वर्षशतं जीवतु शुनी मे ॥ ८७ ॥
मण्डलानां कुक्कुराणां पतिं कर्षन्ती आत्मना सह नयन्ती । एवमेवाक्षुण्णसौभाग्या । चिरं जीवत्विति शुनीसाम्यसूचिता तिरस्कारगर्भा परिहासोक्तिः । रिञ्छोलीवि पङ्क्तिवाचको देशी ।
पूर्वमनासक्तापि काचिद्देवरेण चाटुशतैर्नानाप्रलोभनैश्च वशीकृता । ततः खल्प एव काले विमुखीभवन्तं तं सकोपोपालम्भमिदमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org