________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
"
बधिरान्धाः किल धन्यास्त एव जीवन्ति मानुषे लोके । शृण्वन्ति न पिशुनवचः पश्यन्ति न ये च खलसमृद्धिमपि ॥९५॥ बधिराश्च अन्धाश्च । जीवनमत्र सफलजीवनरूपेऽर्थान्तरे संक्रमितम् । तथाचतेषामेवास्मिलोके जीवनं सफलम् पदे पदे दुर्जनवचनैर्मर्मखभिहन्यमानाया न ममेत्यात्मानं प्रति निर्वेदो ध्वन्यते । मानुषे लोक इत्यनेन - मर्त्यलोके तेषामेव जीवनं प्रशस्त्रं नान्येषाम्, अन्येषु दिव्यलोकादिषु तु दुर्जनवचनश्रवणानवसरात्सिद्धैव समभिनन्द्यजीवनतेति युक्त्या दिव्यजनसाम्यं सूच्यते । गुणदर्शनेन आन्ध्यबाधिर्यदोषयोरपि साभिलाषताप्रदर्शनादनुज्ञालंकृतिः -- ' दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । इति पीयूषवर्ष: । अनया च - पिशुनजनवचनसूचिसंचयैरनवरतविध्यमानश्रवण-हृदयतया दुर्भरं जीवन्त्या मे जीवनमन्धबधिरादिविकलजनापेक्षयापि गर्हणीयमिति निन्दकान् प्रत्यसूयासहकृतः स्वात्मनि निर्वेदातिशयो ध्वन्यते । 'काचिदुत्तमा दुर्जनस्य कस्यचिदुपचयं पश्यन्ती सखी संनिधौ परितप्यते ।' इति कुलबालदेवटीका । गङ्गाधरटीका तु गाथापञ्चकहीनैवोपलब्धा ।
निकटनिवासिनि नायके निर्भरनिबद्धप्रणया काचित्प्रेमप्रतिषेधार्थं पुनः पुनः प्रियसखीभिः प्रोच्यमाना ताः प्रति सासूयमाह
एहि वारेइ जणो तइआ मूइल्लओ व गओ ।
जाहे विसं व जाअं सवङ्गपहोलिरं पेम्म ॥ ९६ ॥
[ इदानीं वारयति जनस्तदा मूलकः कुत्रापि वा गतः ( आसीत् ) । यदा विषमिव जातं सर्वाङ्गघूर्णितं प्रेम ॥ ]
अधुना वारयति जनः कुत्र तदा मूक एषोऽगात् ।
विषमिव विषमं हि यदा जातं सर्वाङ्गघूर्णितं प्रेम ॥ ९६ ॥
'मूइलओ मूक:' इति धनपालकृतः 'पाइअलच्छी' कोषः । इदानीं तु जनः प्रेमतो निवारयति, परं तदा मूकः किञ्चिदप्यब्रुवन् एष जनः कुत्र अगात् गतोऽभूत् ? यदा हि दुष्प्रतीकार्यं विषमिव प्रेम सर्वाङ्गघूर्णितं सर्वाङ्गेषु व्याप्तं जातम् । इदानीं निवारणेन किं वा फलमिति भावः । रक्तसंचारेण सह सर्वस्मिन्वपुषि व्याप्ते विषे तत्प्रतीकारो यथा दुःशकस्तथा सर्वाङ्गव्याप्तस्य तत्प्रणयस्य संप्रति निवारणमशक्यमेवेत्याशयः । सर्वाङ्गघूर्णितमित्यनेन - युष्मत्कथानुगमने विवशं मे प्रणयसात्कृतं सर्वाङ्गमिति विवशता व्यज्यते । सखीजनं प्रति 'जनः' इति तटस्थता निर्देशेन यः किल प्रियतमेन सह संजातां प्रणयप्रवृत्तिं पुरा प्रेक्षमाणोप्यप्रतिषिध्यन् संप्रति वारयति, मन्मनोवेदनामविजानन् स हि सखीजनोपि नि:संबन्धः सामान्यजन एवेति तं प्रत्यसूया प्रकाश्यते । मूकपदेनवचनोच्चारणेऽत्यन्तमशक्कता सूच्यते । किञ्च - 'तदा मूकः कथं जातः' इत्यसौ लोकोक्तिशैली । 'मूइलओ' इत्यस्य 'मूलकः' इति विच्छायां छायां प्रकल्प्य अर्थसंगतौ मूकीभवन् कुलबालदेवस्तूपेक्ष्य एव । 'असदृश्यां कस्यांचिदासक्तः कश्चिदुत्तम एव सख्या चार्यमाणः सासूयं तमेव वदति' इति तदङ्गीकृतमवतरणम् ।
Jain Education International
३५५
For Private & Personal Use Only
www.jainelibrary.org