SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भूमिका। गाथा तं नमत यस्य वक्षसि रमामुखं कौस्तुभेभिसंक्रान्तम् । मृगहीनं शशिबिम्बं विलोक्यते सूर्यविम्ब इव ॥ २०५१ आर्याकारो जुगुम्फ प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः। पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२॥ गलितयौवनायाः स्तनाववलोक्य कश्चित्सपरिहासमाह गाथायाम्निबिडनिरन्तरयोरुन्नतयोव्रणलब्धशोभयोः सरसम् । कृतकार्ययोः पतनमपि रम्यं भटयोरिव स्तनयोः ॥५।२७ __ अत्र हि सुभटावुपमानीकृत्य श्लेषेण स्तनयोः पतनं कृतकार्यतासूचनेन परिहासश्च वर्णितः । आर्याकारः सजनावुपमेयीकृत्य स्तनयोर्निरन्तरसंगतं श्लेषेणाह महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः। सजनयोः स्तनयोरिव निरन्तरं संगतं भवति ॥ ४३८ ॥ बीजकोषान्निर्गतं रक्तवर्णमाम्राङ्कुर ब्रह्मसर्पस्य पुच्छसदृशमाह गाथाकारः दरभिन्नशुक्तिसंपुटनिलीनहालाहलामपुच्छनिभम् । पक्काऽऽम्रास्थिविनिर्गतकोमलमाम्राङ्करं पश्य ॥ १६२ आर्याकारस्तु नवजातस्य कूर्मस्य पृष्टास्थितो निर्गतस्य मस्तकस्य सदृशमाह । वो द्वयोरप्येक एव आम्राङ्करोयमरणश्यामलरुचिरस्थिनिर्गतः सुतनु । नवकमठकपरपुटान्मूद्धवोवं गतः स्फुरति ॥ ९४॥ 'त्वमनेकासु वामास्वासक्तः, अत एव महिलासहस्रभरिते तव हृदये अमान्ती स्वभावतः कृशाङ्यपि सा विरहतः पुनः स्वशरीरं कृशीकरोतीति' गाथाकार आह महिलासहस्त्रभरिते तव हृदये सुभग सा किलाऽमान्ती। __ अनुदिनमनन्यकर्मा ह्यङ्गं तन्वपि तनूकुरुते ॥२।८२ एतद्विपरीतमार्याकारः-पुष्टशरीरया तया एकयापि अन्तर्निखातकीलभावेन तव हृदये गुप्तं तथा स्थीयते यथाऽन्यासां नावकाश इत्याह प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः । या लुप्तकीलभावं याता हृदि बहिरदृश्यापि ॥ ३७४ ॥ जालसूत्राहम्बमानं मर्कटकीटम् (मकडी) वकुलपुष्पसदृशमाह गाथापश्यत पटलविलम्बितनिजतन्तुतलोर्ध्वपादपरिलग्नम् । दुर्लक्ष्यसूत्रसंगतबकुलकुसुममेकमिव हि मर्कटकम् ॥ १२६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy