________________
भूमिका 1
ग्रन्थान्वे तु स्वस्य सफलतायां हर्षगर्वोद्रिक्तमना इव स्वयमेव स्वमुखतः प्राहएका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्या । पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥ ६९९ ॥
सप्तशती प्रशंसयाप्यपरितुष्टः 'इयं मया कृता' इति स्वस्य महिमानं भुवनको घोषयितुं सदर्पमाह -
कविसमरसिंहनादः स्वरानुवादः सुधैकसंवादः । विद्वद्विनोदकन्दः संदर्भीयं मया सृष्टः ॥ ७०० ॥
१९
आसीत्सोपि संस्कृतमहाकवीनां समयो यत्र भूमण्डलैकमण्डनायिता अपि रसानुसारि सरस्वतीनिः स्यन्दा अपि वशीकृतवाचोपि कविकुलैकशेखराः कालिदाससदृशा महाकवयोप्याहुः
'क्व सूर्यप्रभवो वंशः क्व चालयविषया मतिः' इत्यादि । एका चेयं सरणिः प्रसृता, य किल पण्डितराज जगन्नाथश्चरमसीमानं नीतवानिव व्यङ्ग्यविधया - 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः' इत्यादि संसूच्याप्यपरितुष्टः स्पष्टं मुखतो ब्रवीति - 'वाचामाचार्यतायाः पदमनुभवितुं कोस्ति धन्यो मदन्यः' । परमहमुत्प्रेक्षे-यदार्याकारस्य सेयमभिमानोक्तिः कदाचित्संस्कृतक विरङ्गस्थले नाधिकमुत्कटा परिगण्येत । यत्र किल पूर्व प्राकृतकविभिरन्यभाषाणां न्यक्कारः प्राकृतस्य चापरिसीमः सत्कारः सर्वत्रोद्घोषितो भूत्तत्रैव कविरङ्गस्थले यदा ह्यार्याकारेण संस्कृतसरखत्या अध्यधिकारः प्रमाणितो बहुष्वंशेषु सफलता च सूचिता तदा सेयमुक्तिर्मन्ये नारुन्तुदा सिध्येत् । संस्कृतसरखत्याः सर्वतोमुखी शक्तिरिति साधितमेव गोवर्धनाचार्येण । अत एव आर्यासप्तशती निगुम्फ नोत्तरं संस्कृतपक्षपातिनः सूरयस्तस्यामेवैकान्तप्रणयिनो बभूवुः । अन्यथा कथमिव - किन्दुबि - ल्वजो जयदेवकविगीतगोविन्दादौ - 'शृङ्गारोत्तरसत्प्रमेय रचनैराचार्य गोवर्द्धनस्पर्धी कोsपि न विश्रुतः' इत्युच्चैरुद्घोषयेत् । अस्तु. एवं सगर्वमात्मानं प्रशंसतापि गोवर्धनाचार्येण - बहुत्र गाथार्थं उपजीवित इत्यधो निदर्श्यते-
गाथायां विरहोत्कण्ठिता चिरादागतं कान्तं ज्वरश्लाघाच्छलेनोपालभमानाद्द*'सुखपृच्छकं सुदुर्लभजनमध्यस्माकमानयन्दूरात् ।
उपकारक जीवितमपि नयन् न हि ज्वर कृतापराधोसि ॥ १५० यः सुखदिवसेषु कदाचिदपि नागच्छति ईदृशं जनं दूरादप्यत्र आनयन्तं भवन्तमभिनन्दामि । प्राणा अपि यदि गच्छेयुस्तर्हि न तेऽपराधः । गोवर्धनाचार्योप्याह'ज्वर वीतौषधवाधस्तिष्ठ सुखं दत्तमङ्गमखिलं ते । असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम् ॥ २४० ॥
* अस्मिन्प्रसङ्गे गाथासप्तशतीतो निदर्शनीयाः संस्कृतगाथा एव बोधसौकर्यार्थमुद्धियन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org