________________
भूमिका ।
१७
तत्र भुवनोपजीव्यो भगवान्व्यासो निरदिश्यत क्षेमेन्द्रेण । ततश्च मुक्तकानां विषये प्राप्तेषु ग्रन्थेष्वयमेव व्यास इत्र भुवनोपजीव्य इत्यभ्युपगन्तव्यमेव भवेत् । मा भूद्विस्तर इति अमरुककृत - गाथोपजीवनस्य किञ्चिदुदाहरणमधस्तान्निर्दिशामि --
कृतकस्वापनिमीलितनयन सुभग देहि मह्यमवकाशम् । गण्डपरिचुम्वनोगत पुलक पुनर्नैव चिरयिष्ये ॥ १।२०
[ गाथा ]
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ७७ ॥ [ अमरुकः ]
प्रणय कुपितयोरुभयोरपि मानवतोरलीकनिद्रितयोः । निभृतनिरुद्ध श्वासाऽवहितश्रवसोर्नु को मल्लः ॥ १।२७ अन्योन्यकटाक्षान्तरसंप्रेषित मिलितदृक्प्रसरौ । कृतकलहौ किल मन्ये द्वावपि सहसा समं हसितौ ॥ ७/९९ अनयोर्द्वयोर्गाथयोश्छाया यथा
'एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेप्यनुनये संरक्षतो गौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥ १९ ॥ [ अमरुकः ] 'स्थयिष्यामि कराभ्यां नयने तस्मिन्विलोकिते द्वाभ्याम् । अपिधास्यामि कथं मम पुलकितम कदम्बकुसुममि ||४|१४ [ गाथा ]
'भ्रभङ्गे रचितेपि दृष्टिरधिकं सोत्कण्ठमुदीक्षते कार्कश्यं गमितेपि चेतसि तनू रोमाञ्चमालम्बते । रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ २४ ॥ [ अमरुकः ]
दयिते प्रसीद, कुपिता का, सुतनु त्वम्, परेस्ति कः कोपः । कोस्ति परो, नाथ त्वम्, किमिति हि मम दुरितशक्तिरियम् ॥ ४८४
[ गाथा ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org