________________
१६
भूमिका । त्किल वशीकारिणी भवति यावता उत्तरोत्तरघटनाखादायोत्कण्ठितं चेतः संमुखापतितेषु गुणदोषादिषु गजनिमीलिकया त्वरितकारितया वा अनिच्छया यथाकथंचित्प्रवृत्त्यापि शीघ्रमेव कथापरिज्ञानार्थमग्रेसरं भवति । एवंविधेषु काव्येषु मध्यवर्तिनः कियन्तोऽपि श्लोकाश्चेत्सर्वात्मनोपश्लोकनीयाः संपद्यन्ते तावतैव स प्रबन्धो लोकानामभिनन्दनीयो भवति । मुक्तकानि तु प्रत्येकपद्यान्येव स्वतत्राणि भवन्तीति तत्रैव रसान्वेषणलोलुपं पठितुमीनसं व्यासज्यते, न कथा तत्रोपष्टम्भिनी भवति । अत एवोक्तं लोचनकारेण'पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् ।
पूर्वापरनिरपेक्षे एकस्मिन्नेव पद्ये पठितुश्चेतश्चमत्काराय वाच्यार्थापेक्षया व्यङ्ग्यस्यैव प्राधान्यमास्थापनीयं भवति । अत एव एवंविधध्वनिपूर्णस्य काव्यस्य निर्माता 'महाकविः' इति व्यपदेशं लभते । उक्तं हि लोचनकारेण--'प्रतीयमानानुप्राणित-काव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशो भवतीति । इदानीमालोचनीयं विवेचकैर्यद् गाथारूपाणीमानि मुक्तककाव्यानि 'महाकवि'लेखनीप्रसूतानि सन्ति न वेति । 'मुक्तकं संस्कृतं-प्राकृतापभ्रंशनिबद्ध मिति' तत्प्रभेदान्निर्दिशता ध्वनिकारेण प्राकृतनिबद्धं मुक्तकं गाथासप्तशतीरूपं तु स्पष्टमिव निर्दिष्टमेव, किन्त्वभ्यर्हितबुद्ध्या यत्संस्कृतमुक्तकं पूर्व निर्दिष्टं तदृष्टान्तविधया च अमरुककवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा इति परिगणितास्तेपि गाथासप्तशतीतो न पूर्वतनाः । अत एव क्वचित्क्वचिद्गाथार्थमुपजीवन्तो दृश्यन्ते
गाथासप्तशती अमरुकश्च । अमरुकशतकं हि अमरुकनाम्नो मृतस्य कस्यचिद्राज्ञः शरीरे परकायप्रवेश विद्यया प्रविश्य भगवता शङ्कराचार्येण निर्मितमिति पण्डितसमाजे पुरातनी प्रसिद्धिः । उक्तं चापि अमरुकशतकटीकां कुर्वता देवशङ्करेण-'क्व मे मन्दा बुद्धिः क्व च रसमयं शङ्करवचस्तथापि व्याख्यातुं तरलमनसः शंकरकृतिम्' इत्यादि । भगवतः शंकराचार्यस्योद्भवसमयः-८४५ तमो विक्रमसंवत्सर इति यज्ञेश्वरपण्डितेन आर्य विद्यासुधाकरे साधितम् । केचित्तु खैस्त्यां सप्तमशताब्द्यां शङ्कराचार्यस्योत्पत्तिमाचक्षते। यत्किञ्चिदस्तु, परं विक्रमादित्यसमकालिकात् शकप्रवर्तकात् शालिवाहनान्न स प्राचीन इति तु सर्वेपि जानीयुः । एवं च साहित्यनिबन्धकारेषु सुतरां प्राचीनैर्ध्वनिस्थापकैरानन्दवर्द्धनाचार्यैः प्रशंसाबुद्ध्या ये किलामरुकस्य मुक्तकाः श्रद्धातिशयात्पूर्व निर्दिष्टास्तेपि गाथातो न प्राचीनाः सिध्यन्ति। प्रत्युत तदर्थमुपजीवन्तो बहुत्रावलोक्यन्ते । एवं च अस्मिन्मुक्तककाव्यजगति एतदवधिप्रसिद्धेषु ग्रन्थेषु गाथासप्तशत्येव सर्वेषां मुक्तककाव्यानामादिम उपजीव्यश्चेति सिध्यति । उक्तं हि कविमेदान्परिगणयता महाकविना क्षेमेन्द्रेण कविकण्ठाभरणे
'छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी । भवेदथ प्राप्तकवित्वजीवी स्वोन्मेषतो वा भुवनोपजीव्यः ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org