________________
५ शतकम् ]
संस्कृतगाथा सप्तशती ।
२४९
गोपनार्थं सखीनामाग्रहाद्धारितेनापि त्वद्वियोगान्निष्फलेन मण्डनेन विलक्षा सा । विरहदुःखानुमितस्य त्वत्प्रणयस्य स्फुटीभावात्सखीभ्योपि लज्जते, किमुतान्येभ्यः । मण्डनादिना यद्यपि उपरितो बहुतरं गोपयति परं जागरणकषायिताभ्यां गुरुकाभ्यां नेत्राभ्यामेतस्या विरहदुःखं स्फुटीक्रियत इति स्वभावादेव लज्जालुः सा लज्जातिक्रमात्सुभृशं खिद्यत इति 'बराकी' पदद्योतितेन दैन्येन विरहातिशयः सूच्यते । सुभगेत्यामन्त्रणेन - सौभाग्यगर्वितस्त्वमेवमवस्थामपि न तां संभावयसीति नायकं प्रति त्वरार्थमुपालम्भः सूच्यते ।
गर्भभरात्क्लाम्यन्तीं सखीमवलोक्य सखी सपरिहासमन्यां सखीमाह
वि तह अइगरुण वि तम्मइ हिअए भरेण गन्भस्स । जह विपरीअणिहुअणं पिअम्मि सोहा अपावन्ती ॥ ८३ ॥ [ नापि तथातिगुरुकेणापि ताम्यति हृदये भरेण गर्भस्य । यथा विपरीतनिधुवनं प्रिये स्नुषा अप्रामुवती ॥ ]
नापि तथा हृदि ताम्यति गर्भस्य भरेण भूरिगुरुणापि । विपरीतनिधुवनं पुनरप्रामुवती खुषा यथा दयिते ॥ ८३ ॥
यथा दयिते ताम्यति दयितं प्रति खिद्यत इत्यर्थः । 'स्नुषा' पदेन नवतारुण्यं श्वश्रूप्रभृतिभिर्गर्भावस्थायां सुरक्षितत्वं च सूच्यते । गर्भिणीपीवरादीनां विपरीतसुरतस्य निषिद्धत्वादिति भावः ।
नायिकानुरागं प्रकाश्य नायकमुत्कण्ठयन्ती दूती सहजमाह
अगणिअजणाववाअं अवहत्थिअगुरुअणं वराईए ।
तुह गलिअसणाए तीए वलिउण चिरं रुण्णम् ॥ ८४ ॥ [ अगणितजनापवादमपहस्तितगुरुजनं वराक्या ।
तव गलितदर्शनया तया वलित्वा चिरं रुदितम् ॥ ] अगणितजनापवादं पहस्तितगुरुजनं वराक्याद्य ।
तव विगलितदर्शनया तया वलित्वा चिरं रुदितम् ॥ ८४ ॥ विगलितदर्शनया दर्शनाद्वियुक्तया । न गणितो जनापवादो यस्याम्, अपहस्तिताः अवमानिताः गुरुजनाश्च यस्यां क्रियायां यथा भवति तथेति क्रियाविशेषणद्वयम् । वलित्वा परावृत्त्य । अपहस्तित पदेन - प्रेमप्रतिरोधाय बलान्मध्यमापतन्तोपि गुरुजना हस्ताभ्यामपसारिता इति प्रेमातिशयः पोष्यते । वलित्वा रुदितमित्यनेन - यावत्त्वद्गमनस्य दिशि लग्नाभूद्दृष्टिस्तावदासीदाश्वासः परं मुखपरावर्तने सोपि गत इति दुःखातिशयः सूच्यते । वराकीपदेन - जन-गुरुजन - संदंशपतितापि त्वत्प्रणयवशीकृता सेयं दीना किमिति नोपगम्यत इति दैन्योत्तेजित उत्कण्ठातिशयः पोष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org