________________
२५०
काव्यमाला |
प्रोषितपतिका तत्सखी वा लेखमुखेन नायकमाह -
हिअअं हिअए णिहिअं चित्तालिहिअ व तुह मुहे दिट्ठी । आलिङ्गणरहिआई णवरं खिज्जन्ति अङ्गारं ॥ ८५ ॥
[ हृदयं हृदये निहितं चित्रालिखितेव तव मुखे दृष्टिः । आलिङ्गनरहितानि केवलं क्षीयन्तेऽङ्गानि ॥ ]
हृदयं हृदये निहितं चित्रालिखितेव तव मुखे दृष्टिः । आलिङ्गनरहितानि हि केवलमङ्गानि हीयन्ते ॥ ८५ ॥ हीयन्ते क्षीणानि भवन्ति । तव मुखे मदृष्टिश्चित्रलिखितेव निश्चला, सर्वदा मम तव मुखं भ्रमतीत्याशयः । मम हृदयं तव हृदये स्थापितमित्यनेन - एकीभूतहृदयाया मम विरहवेदनां किं न जानासि ? ततश्च हृदयाभिज्ञस्त्वं विरहविकलां दुर्बलां मां त्वरितं सान्त्वयेति ध्वन्यते । प्रतिक्षणमेव त्वत्स्मरणस्योपस्थापनेन उत्कण्ठासंवर्धकं हृदयं दृष्टिश्चेति द्वितयं तु विरहेपि सर्वदैवाक्षुण्णबलम्, हृदय-मुखाद्यनुकूलसमा - गमसौख्यात् । देहस्तु क्षीयते । तथा चोत्कण्ठोपबृंहणेन शतगुणसंधुक्षित विरह वेदनं कथं मे जीवितं तिष्ठेदिति त्वमेव जानीहीति गूढमाकूतम् । 'शरीरं क्षामं स्यादसति दयिब्रालिङ्गनमुखे' इत्यादयो बह्वयः सूक्तयोऽस्या गाथाया उपजीवन्त्यर्थमित्यलं मार्मिकेषु । प्रियानयनाय त्वरयन्ती प्रोषितपतिका मर्माभिज्ञां सखीमाह
अअं विओअतणुई दुसहो विरहाणलो चलं जीअम् । अप्पाहिजउ किं सहि जाणसि तं चैव जं जुत्तम् ॥ ८६ ॥ [ अहं वियोगतन्वी दुःसहो विरहानलश्चलं जीवम् । अभिधीयतां किं सखि जानासि त्वमेव यद्युक्तम् ॥ ] अहमिह वियोगतन्वी विरहाग्निर्दुःसहश्चलो जीवः । अभिधीयतां नु सखि किं त्वमेव जानासि यद्युक्तम् ॥ ८६ ॥ वियोगतनुतया शुष्कां विरहाग्निः सुभृशं दहतीति तन्वीपदोत्तरं विरहाग्निपदनिगुम्फनस्याकूतम् । एवं जीवन्त्या एव शरीरदाहे वराको जीव एव कथं तिष्ठेत्, तस्य वायुवञ्चलत्वात् । एवमवस्थायां प्रियतमार्थ किं संदिश्यतामस्मिन्विषये यद् युक्तं तत्त्वमेव जानासि । अथवा मया किमुच्यताम् । संप्रति यदुचितं तत्त्वं जानासि । यदि मे जीवितं कामनीयं तर्हि प्रियतमः समानेय इत्याशयः ।
अन्यासक्ततया चिरकालादनुपसरन्तं नायकं नायिकाया विरहदुःखं प्रतिपादयन्ती दूती आह—
तु विरहुञ्जागरओ सिविणे वि ण देइ दंसणसुहाई । वाहेण जहालोअणविणोअणं से हअं तं पि ॥ ८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org