________________
२४८
काव्यमाला |
[ यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम् | पुष्पवतीदर्शनं तथापि ददाति हृदयस्य निर्वाणम् ॥ ] यदि लोकनिन्दितं यद्यमङ्गलं यदि विमुक्तमर्यादम् । पुष्पवतीदर्शनमिह ददाति हृदयस्य निर्वृतिं तदपि ॥ ८० ॥ यदि यद्यपीत्यर्थे । विमुक्तमर्यादम् उल्लङ्घितमर्यादं सदाचारविरुद्धमिति यावत् । 'अतिमदनाक्रान्तहृदयः कोपि दोषं जानन्नपि रागौत्कट्यात्प्रेयस्याः सहचरीमाह' इति गङ्गा
धरः ।
दोषदर्शनादुद्विजन्तमपि रागवशादुपसरन्तं कान्तं हाववती काचित्पुष्पवती सोपा
जइ ण छिवसि पुप्फवई पुरओ ता कीस वारिओ ठासि । छत्तोसि चुलचुलन्तेहिँ धाविउण अम्ह हत्थेहिं ॥ ८१ ॥ [ यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किमिति वारितस्तिष्ठसि । स्पृष्टोऽसि चुलचुलायमानैधीवित्वास्माकं हस्तैः ॥ ]
लम्भमाह
स्पृशसि न यदि पुष्पवतीं तिष्ठसि तत्किमिति वारितः पुरतः । स्पृष्टोऽसि नः कराभ्यां धावित्वा चुलचुलायमानाभ्याम् ॥ ८१ ॥ शास्त्रमर्यादया दोषाशकी त्वं यदि पुष्पवतीं मां न स्पृशसि तर्हि मया स्पर्शाय निवारितः संमुखे किमिति तिष्ठसि । इदानीं चुलचुलायमानाभ्यां त्वत्स्पर्शोत्कण्ठया कण्डूयमानाभ्यां नः कराभ्यामेष त्वं धावित्वा स्पृष्टोऽसि । चुलचुलेत्युत्कण्ठातिशयसूचकमनुकरणम् । सरस्वतीकण्ठाभरणादिषु क्वचित् चुलचुलायमानाभ्यामित्यस्य स्पन्दमानाभ्यामिति च्छायोपलभ्यते । परं भावव्यञ्जनानुकूला प्राकृतशैली पालनीयेति न तथेहानुसृतम् । नायिकानिष्ठः सोयं हाव इति सरस्वतीकण्ठाभरणम् । 'रागतः सहसा प्रवृत्तिहेतुश्चित्तोहासो हेला । वचनविन्यासेन सहिता हेलैव हावः' इति तद्वर्णितं लक्षणम् ।
मुग्धायाः प्रोषितपतिकायाः सखी नायकसमीपगामिनं पान्थं प्रति नायकार्थं सोपालम्भं संदिशति
उजागर अकसाइअगुरुअच्छी मोहमण्डण विलक्खा |
लज लजालुइणी सा सुहअ सहीहिँ वि वराई ॥ ८२ ॥ [ उज्जागरककषायितगुरुकाक्षी मोघमण्डनविलक्षा ।
लज्जते लज्जाशीला सा सुभग सखीभ्योऽपि वराकी ॥ ] उजागरक कषायित गुरुकाक्षी मोघमण्डनविलक्षा | सा लज्जते वराकी सुभग सखीभ्योऽपि लज्जालुः ॥ ८२ ॥ उज्जागरेण (सुभृशं जागरणेन ) कषायिते गुरुके अक्षिणी यस्याः सा । त्वद्विरह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org