________________
१४
भूमिका ।
• अंशा न कथंचिदपि स्फुटतया वर्णयितुं शक्येरन् । अत एव संस्कृतभाषायां शृङ्गारसवर्णना सार्गला भवति । प्राकृते तु स्वातन्त्र्येण शृङ्गारः समुदीर्यते । अत एव तत्र संस्कृतापेक्षयाऽधिकशृङ्गारवर्णनोपलम्भात् शृङ्गाररसनिर्भरत्वमुपाख्यायते लोकैः । गणगौरी-श्रावणतृतीया - दीपावल्यादिषु प्रायः सर्वेष्वेव आर्याणामुत्सवेषु शृङ्गाररससंयोगः समुपलभ्यते । परं सर्वापेक्षयापि होलामहोत्सवः शृङ्गारनिर्भरः कामस्य जीवभूततया मदनोत्सव इति परमगौरवभाजनं विशेषेण शृङ्गाररससङ्गी संगीर्यते । स्पष्टमेतस्य कारणं यदत्र निरर्गलः शृङ्गारोऽनुभूयतेऽनुभाव्यते च जनैः, अत एव स - तादृशः शृङ्गाररसासाधारणः ख्यायते । एवमेव संस्कृतापेक्षया प्राकृते निरर्गलशृङ्गावर्णनाधिक्यालोकार्ना शृङ्गारवर्णनाप्रसङ्गे प्राकृत एवाधिकं प्रीतिः । सभ्य समाजसंकोचेन बहिस्तादृशी प्रबलरुचिर्निजानुमतिर्वा कामं जनैर्न प्रकटीक्रियते परं तादृशी वर्णनाऽवश्यमन्तःकरणस्य संतर्पिणी भवतीति प्रायोनुभवसिद्धम् । प्राकृतगाथासु बहुत्र प्रायस्तादृशमेव जनमनोहारि शृङ्गारवर्णनमुपनिबद्धमित्यग्रतः प्रसङ्गेन स्पष्टीकरिष्यामि । अत एव आर्यासप्तशतीकारस्य समये प्राकृतस्य नासीत्तादृग्गौरवम्, न चाप्यसौ स्वयमपि प्राकृतपक्षपाती आसीत्, ततोपि लोकानां प्रसिद्ध्यनुसारं शृङ्गारार्थे प्राकृतमुपरितस्तुष्टाव तदपकर्ष व्यङ्ग्य विधया च सूचितवान् ।
इदं किल प्राकृतसंस्कृतयोर्महत्त्वतारतम्यं गोवर्धनाचार्येण 'वाणी प्राकृतसमुचितर से ' त्याद्यार्यायां निगूढमभिव्यक्तम् । प्राकृतपदेन - प्राकृतभाषा तथा प्राकृतः साधारणो जन इत्युभयमपि प्रतीयते । ततश्च प्राकृतलोकानां समुचितः सुखावहो रसो यस्या ईदृशी वाणी मया बलेन प्राकृतसप्तशत्याद्यवधीरणेन संस्कृतं नीता । या किल वाणी ( अर्थ ) प्राकृतभाषा संदृब्धत्वात्साधारणकोटिकानां जनानां प्रीतिपात्रं बभूव सैवाधुना संस्कृति प्रापिता उन्नतलोकानामाखादनीया कृतेति तदाशयः । इमं व्यङ्ग्यार्थं टीकाकारपदनिर्वाहे स्थूलहस्तोपि आर्यासप्तशतीटीकाकारोनन्त पण्डितोपि व्यञ्जयांचकार' एवं च प्राकृतसंस्कृतयोर्भूत लगगनतलतुल्यताप्रतिपादनेन प्राकृतात्संस्कृतेत्यन्ताधिक्यमावेद्यते' इति ।
किञ्च - प्राकृतभाषायां चमत्कारकवाक्यसंदर्भाणामनुकूलाः शैल्यः ( 'मुहाविरे' ) अप्यनायासेनैव निर्वोढुं शक्यन्ते । ततश्च तादृक् शैली निबद्धा सेयं लोकानामधिकाधिकं प्रीतिपात्रं बभूव । विशेषतश्च शृङ्गारादिसदृशेषु मधुरेषु रसेषु शैलीबन्धबन्धुरा पदशय्या भाषां सजीवामिवोपस्थापयतीति काव्यसूक्तिस्तथा सति भूरिमनोहारिणी संपद्यते । यथा हि
आम् कुलटा वयमपसर पतिव्रते ते न मलिनितं शीलम् । न च कामयामहे किल जनस्य जायेव चन्दिलं तु पुनः ॥ ५।१७ अत्र हि काक्कादिभिर्यः किलार्थविषये वक्तुरभिमानसूचकः कश्चिदतिशयो द्योत्यते तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org