________________
भूमिका ।
१३
नाङ्गीकृतः, यश्व 'शून्यं वासगृहम्' इत्यादीनि काव्यान्यपि मधुराण्याह, सोपि टवर्गबाहुल्यं विशेषतश्च द्वितीयचतुर्थसंयोगाधिक्यं शृङ्गारादिरसेषु सुतरां विरुद्धमाह । इदानीं विचारणीयं विवेचकैर्यत्-यस्यां प्राकृतभाषायामुक्तप्रकारेण माधुर्य विरुद्ध संयुक्ताक्षरटवर्गादिबाहुल्यं यदा प्रतिपदमुपलभ्यते तदा सा कथं वा मधुरता संपादनाय सर्वभाषा मौलिगता परिगण्यते ? प्राकृतभाषायां माधुर्यगुणविरुद्धा ओजोनुकूला संघटना बाहुल्येनोपलभ्यते इति हि मत्सदृशैरेव साम्प्रतमेवालोचितम्, तदपि नास्ति -
'चित्ते विहृदि, णट्टदि सा गुणेसु सेजासु लोहदि विसहृदि दिम्मुहेसु । वालेम्मि वट्टदि पवहृदि कव्वबन्धे झाणेण डुहृदि चिरं तरुणी तरट्टी ॥'
इति पद्ये योयमनुप्रास उपनिबद्धः स हि टवर्गस्य शृङ्गारप्रतिकूलत्वात्केवलं वाचकं शब्दमेवालंकरोति न पुनः पद्यस्य व्यङ्ग्यभूतं विप्रलम्भशृङ्गारमिति प्रसने काव्यप्रदीपकारेण उद्योतकारेण नागेशभट्टेनापि च- 'अनुप्रासो मास्तु तावद्वसोपकारकः परमत्र सर्वे वर्णा एव रसोचितसंघटना प्रतिकूलाः, ततश्च तादृशैर्वर्णै रसाभिव्यक्तिरेव न भवेत् । एवं च 'सन्तमपि रसं नोपकुर्वन्ति' इत्यस्योदाहरणत्वमस्य पयस्यासंगतं स्यात्, रसस्यैवाभावात् । ' इमामरुचिं मनसि निधाय तैरुक्तम् - ' अत्र च प्रतिकूलवर्णत्वं न दोषः, प्राकृतस्यैौजोगुणप्रधानत्वात्, अस्य च तदभिव्यञ्जकत्वात्' इति । एवं स्पष्टै - रक्षरैरुपवर्णितं भवति यत्प्राकृतं भवेत्तावदोजोनुकूल संघटनोचितं परं मधुररसोचिता संघटना तु नात्र यथोचितं निर्वाह्यते इति । ननु प्राकृतभाषाया ओजोनुकूल संघटनासंदृब्धत्वात्तत्र शृङ्गाररस एव नाभिव्यज्यते इति तु न भ्रमितव्यम् । प्रतिकूलवर्णत्वेऽपि रसप्रतीतिस्तु भवत्येव, परम् अपकर्षोऽवश्यं भवतीति सिद्धान्तात् । उक्तं हि तत्रैव-'वस्तुतस्तु सत्यपि प्रतिकूलवर्णत्वे रसस्य नानुत्पत्तिरेव अनुभवविरोधात्, किन्तु अपकर्षमात्रम्' इति ।
प्राकृतं कथं वा मधुरम् ?
इदानीं विचारणीयम् - यस्यां भाषायां रसस्यापकर्षो भवति सैव भाषा संस्कृताद्यपेक्षयापि शृङ्गाररसवर्णनायां परमोत्कृष्टा कथमिव परिगण्यते ? मा भूवन्नस्यां वर्णास्तादृग्रसानुकूलाः, परमस्याः स्त्रीबालादिसकल सुबोधत्वादस्यां तादृग्दर्शनादिगभीरा विषया नोवर्ण्यन्ते किन्तु सर्वानुरञ्जनाय शृङ्गारादिसदृशा रसा बाहुल्येन परिनिबध्यन्ते । ततश्च बहुभिः कविभिरस्यां शृङ्गारस्यैव वर्णनात् सेयं शृङ्गाररससमुचितेति प्रसिद्धि - जीता । अत एव 'अमृतं प्राकृतकाव्य 'मिति गाथायाष्टीकायां गङ्गाधरेण-'शृङ्गाररसनिर्भरत्वादमृतमिवामृतं प्राकृतकाव्यम्' इत्युक्तम् । अत्र हि प्राकृतकाव्ये शृङ्गारः पूर्णतया परिपुष्टो भवतीत्येतावदभिव्यक्तं भवति ।
संस्कृतभाषा हि गभीरान्विषयानेवादितः समाद्रियमाणा क्रमशस्तथा गौरववाहिनी संजाता यदस्यां शृङ्गारो यदि वर्ण्यते तदापि मर्यादानुकूल एव । व्यङ्ग्यतया वर्णनीया सं. गाथा. 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org