________________
१२
भूमिका । तत्कठिनतरमिति द्योत्यते' । संस्कृते सरसतायाः संपादनं कठिनमेव न किन्तु कठिनतरम् ! अहो प्रभावः प्राकृतस्य ।
प्राकृतभाषाया ओजोऽनुकूलाक्षरता या किल भाषा शृङ्गारादिमधुररसवर्णनासमुचितानामक्षराणामपि कृते दरिद्रा सापि सुरसतासंपादनाय परमोत्कृष्टेति गौरवगिरिशिखरमारोप्यते ! यः किल टवर्गः सर्वैरपि साहित्यनिबन्धकारैः पदे पदे प्रधानतया प्रतिषिद्धस्तस्यात्राखण्डितं राज्यम्! अन्येषां प्रतिषेध्यानामक्षराणां पश्चान्निर्देशः परं टवर्गस्तु सर्वैरपि सर्वप्रथममेवोपादीयते-'मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गाः' इत्यादि काव्यप्रकाशः । 'टवर्गवर्जिताना वर्गाणां प्रथमतृतीयैः शर्मिरन्तःस्थैश्च घटिता' इत्यादि रसगङ्गाधरः। 'उपर्यधो द्वयोर्वा सरेफो टठडढैः सह' इत्यादिर्दर्पणः । एवं शृङ्गारादिषु क्रोशान् दूरे परिहरणीयष्टवर्गः साधारणतया अस्या भाषायाः शरीरप्रविष्टः । अत्र हि 'वर्तते' “वर्धते' इति वक्तव्ये 'वदि' 'वहृदि' संपद्यते । “स्थितः' 'कर्षन्ती' 'निपतन्' इत्यादयः शब्दाः 'ठिओ' 'कड्डन्ती' 'णिवडन्त' इत्यादिरूपाः संपद्यन्ते । संयुक्ताक्षरबाहुल्यमपि मधुरवर्णनायां नोपादीयते । किन्तु प्राकृते असंयुक्तमपि प्रसह्य संयुक्तं क्रियते-'जति' 'नीयते' 'एकः' 'लगति' 'जायेव' इत्यादयः शब्दाः 'वजदि' ‘णिजई' ‘एको' 'लग्गति' 'जाअव्व' इत्याकारकाः संपद्यन्ते । वर्गद्वितीय-चतुर्थाक्षरबहुला संघटना तु माधुर्यगुणस्य सुतरां विप्रतीपा परिगण्यते, किन्तु प्राकृतभाषायां वर्गीयप्रथमवर्णोपि द्वितीयः संपद्यते । अत्र हि "विस्तरः' 'अक्षरः' इत्यादिकाः शब्दाः 'वित्थरो' 'अक्खरो' इत्यादिरूपे परिणमन्ते । शृङ्गारविषयेपि-'पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरस्थले गामे' इत्यादिरूपं गुम्फं प्राकृते साधारणतया प्रचलितं को वा साहित्यिको न परिचिनोति । प्राकृतवादिनां मुखमुद्वैव तादृशी यत्र 'दाहः' 'प्रथमः' "एतावन्मात्रः' इत्यादिकाः 'डाहो' 'पढमो' 'एद्दहमत्तो' इत्यादिरूपाः परिणमन्ते । मधुरस्तवर्गान्तिमो नकारोपि प्राकृतभाषाप्राकारे प्रविश्य 'ण' कारः संपद्यते । 'घन-स्तन-धनुः' इत्यादिषु 'घण-थण-धणु' इत्यादीनि रूपाणि भवन्ति । 'नयने नृत्यतस्तरुणीनाम्' इति वक्तव्ये प्राकृतपुरे ‘णअणाई णचन्ति तरुणीणम्' इति वक्तव्यं भवेत् ।
'तो तमालतरुकान्तिलचिनी मित्यादिर्यत्र मधुरो गुम्फः शोभामुपदध्यात् , तत्र किल शृङ्गारेपि-'तइआ मह गंडस्थलणिमिअं दिहिँ णेसि अण्णत्तो । एहिं सच्चेअ अहं ते अ अवोला ण सा दिट्ठी ॥' इत्यादि बलात्प्रयोक्तव्यं भवति । केषु रसेषु कैरक्षरैरुपनिबन्धव्यमिति विषये रसगङ्गाधरे तु तावदतीव मार्मिकता प्रदर्शिता । स हि 'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवनं वनम्' इत्यादिकमप्यश्रव्यं परिगणयति । प्राचीननिबन्धेषु शृङ्गारस्योदाहरणतया सुमधुरं परिगणितम्
'शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैः' इत्यादिपद्यमपि शृङ्गारवर्णनाविरुद्धमाह । परं यत्र काव्यप्रकाशे वर्णसंघटनाविषये तादृशः सूक्ष्मातिसूक्ष्मो विमर्शी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org