________________
भूमिका ।
११
णीकृत्य तेषां गुणदोषादीन्विविच्य परतोभाविनां साहित्यसेविनां शिक्षानिमित्तं तच्छास्त्रं निर्मीयते । यथा हि पूर्वं जनसमाजे भाषा प्रादुर्भवति तदनन्तरं तस्याः संस्काराय विटङ्खलतानिवृत्तये च व्याकरणं निर्मीयते । एष किल नवीन शिक्षापद्धतिमधिजग्मुर्षा विदुषामेव युक्तिविन्यासः । एतदनुसारमस्माकं समाजे काव्यनिर्माणयुगं कियत्पुरातनं सिध्येत्, तदपेक्षिता शनैः शनैरुपचिता सभ्यता च ततोऽपि कियत्पुरातनी भवेदिति स्वत एव सभ्य महाभागैरनुभवनीयमापतति ।
काव्यगुणसौष्ठवम्
>
इयं सप्तशती बहुतरं पुरातनीत्येतदपेक्षयापि सैषा काव्यगुणैर्निर्भरमभिभूषितेत्येतावदेवास्याः समुत्कर्षस्य निदानम् । शनैः शनैरुपचयमुपगता प्राकृतभाषा परमधनाव्यया चरमोत्कृष्टया च संस्कृतभाषया सह संघर्षमनुभूय कैश्चित्कविभिः संस्कृततुलनायां सेयं मधुरापि यत् पर्यगण्यत तस्य किल निदानं सप्तशती सदृशानां ग्रन्थानामुत्पत्तिरेव । यस्मिन्समये प्राकृतभाषा संस्कृततो मधुरा पर्यगण्यत तस्मिन्प्राकृतोत्कर्षमये समये त्वियं सचेतसां हृदयदेशमधिकुर्यादेव परं प्राकृतभाषायाः सौष्ठवप्रभावो यस्मिन्समये जनानां हृदयाच्छनैः शनैरपगच्छति स्म, तस्मिन्नपि समये सहृदयहृदये वज्रकीलोल्लि खितेवास्याः सप्तशत्याः सौभाग्यसंकथा न कथंचिदप्युन्मृष्टाभवदिति वयं जानीमः । अत एव श्रीमती संस्कृत सरस्वतीमेव भूमण्डलस्य सरससाहित्यसाम्राज्यसिंहासने सुस्थिरामापादयितुं प्रयतमानैरलंकारशास्त्रकारैः प्राकृतभाषानिबद्धापि सेयं साभिमानमुदा हियत । आसीत् किल तादृशः समयो यत्तेषामधिकारे यदि संस्कृतकाव्योदाहरणान्यभविष्यंस्तर्हि न ते कथंचिदपि प्राकृतभाषामयीमिमामस्प्रक्ष्यन् । घरं ध्वनेर्भेदानामुदाहर. णानि यानि भवेयुस्तादृशानि कानिचिदन्यानि काव्यान्येव तैर्नोपालभ्यन्त । दृश्यताम्, रुद्रट-मम्मट - वाग्भट - विश्वनाथादिभिः प्रायः सर्वैरेव स्वस्वसाहित्यनिबन्धेषूदाहरणतया सेयं सप्तशती पर्यगृह्यत । गुणमुग्धतया सर्वत्रैवेमामेवानुवर्तमानेन भोजेन तु सरस्वतीकण्ठाभरणे प्रायः सर्वैव सप्तशती केन केनचित्प्रसङ्गेनोदाहृता । अपि नेदमस्याः परमोत्कर्षं सूचयितुमलम् ? अस्या अनुकरणेन संस्कृतेपि गाथा सब्रह्मचारिणीभिरार्याभिः सप्तशतीमुपनिबध्नता गोवर्धनाचार्येणाप्यारम्भे 'वाणी प्राकृतसमुचितरसा ० ' इत्यादिना अस्याः स्तुतिरगायि । नासीत्तस्मिन्समये प्राकृतस्य तावान्प्रसारः, परं गाथासप्तशत्यादिभिः कतिभिश्चिद्गन्यैः शृङ्गारस्योपरि तादृशी निजमुद्राऽङ्किता यया प्रभावितः श्रीगोवर्धनाचार्योंपि अनिच्छायामपि शृङ्गारोपनिबन्धनविषये प्राकृतं स्तोतुं प्रसह्य परवशोऽभवत् । दृश्यताम्, कैरक्षरैरेष स्तौति - 'प्राकृतभाषायां समुचितो रसो यस्याः ईदृशी वाणी अर्थात् शृङ्गारप्रमेयमयी, निम्नोचितनीरा कलिन्दकन्या गगनतल - मित्र बलात्कारेणैव मया संस्कृतं नीता ।' 'एतादृशी वर्णना प्राकृतभाषायामेव सरसा संपद्यते न संस्कृते, ततोपि मया बलादेव संस्कृतं प्रापितेति' तदाशयः । टीकाकारमहाशयोप्याह - ' एवं च प्राकृतकाव्ये सुरसतासंपादनं सुगमतरम्, संस्कृत काव्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org