________________
भूमिका । ददता संवाहनसुखरससंतुष्टेन तव करे लाक्षाम् ।
विक्रमनरेन्द्रचरितं चरणेन हि शिक्षितं तस्याः ॥५॥६४ सपत्नीचरणलाक्षालाञ्छितकरं दयितं खण्डिता सेयॊपालम्भमाह-त्वत्कृतसंवाहनात्तुष्टेन अतएव प्रसादरूपेण त्वत्करे लाक्षां ददता (संक्रामयता) तस्याः (सपन्याः) करेण विक्रमनरेन्द्रचरितमनुशिक्षितम् । प्राकृते 'संबाहणं' 'संवाहनं संबाधनं च 'लक्ख' 'लाक्षां लक्षं' चेति । ततश्च विक्रमादित्यो भृत्यकर्तृकेन शत्रुसंबाधनेन तुष्टः सन् यथा भृत्यस्य करे लक्षं ददाति तथा त्वत्करे तया लाक्षा दत्तेति भावः ।
इयं घटना तस्मिन्काले सर्वतः प्रसताभूदिति कवयितुरक्षरशय्यायामपि सा स्थानं लेभे। ततश्च विक्रमादित्योप्येतत्कोषनायकस्य शालिवाहनस्य समकालिकप्राय एवेति स्फुटीभवति । प्रबन्धकोषेपि 'विक्रमादित्यसमकालीन एवायं सातवाहनः' इति प्रोक्त. मस्ति । दृश्यतां पूर्वसंस्करणभूमिकायां सातवाहनशीर्षकस्य द्वितीयं पृष्ठम् ।
. प्राचीनता उपलभ्यमानेषु काव्यग्रन्थेषु गाथासप्तशती प्रायो बहुभ्य एव पुरातनी। अस्या निर्माणकालः संवत्सराणां सहस्रद्वयीमासीदति । यतः शकसंवत्सरप्रवर्तकस्य शालिवाहनस्य समये सेयमुद्भवमग्रहीदिति पूर्व निर्दिष्टमेव । यस्मिन्समये बहूनां सभ्यजातीनां समाजे सभ्यतादेव्याश्चरणन्यासोपि नाभवत्तस्मिन्नपि समये भारते एवंविधमपूर्व ध्वनिकाव्यं निरमीयत, यत्प्रातिद्वन्द्वयमस्मिन् सभ्यतायाः पूर्ण विकासमयेपि समये सहसा न संभवेत् । इदं हि काव्यं साहित्यशास्त्रस्य परिभाषितर्लक्षणैः पूर्णतया लक्षितम् । स्थाने स्थानेऽस्मिन्नलंकारास्तथा वैदग्ध्येनासजिता यथा सेयं सप्तशतीसुन्दरी सहृदयानां प्रसह्य मनोहरणायालम् । तेऽप्यलंकारास्तावन्त एव विलसन्ति यावद्भिनिसर्गसुन्दरमस्या वपुर्न भारसीमानमनुचुम्बति । प्रधानतस्त्वत्र रसस्यैव साम्राज्यं यो हि काव्यस्यात्मरूपेण सर्वैः संमान्यते। चेतश्चमत्कारकं किञ्चिद्व्यङ्ग्यमनुपादाय कतमंचिदपि पद्यं नानावतरतीति सपणबन्धमुद्घोषयितुं शक्येत । अत्र हि शृङ्गाररसोझी। स हि प्रायः सर्वत्र निष्प्रतिबन्धमुखेलतीति स्पष्टमेव तद्विमर्शकमहाभागानाम् । रसानुसारिणः प्रसादमाधुर्यादयो गुणास्त्वेतस्याः स्तरे स्तरे भवेयुरत्र वक्तव्यमेव किम् ? यतः सरसासु काव्य व्यक्तिषु तेषां साभिनिवेशः प्रवेशो नान्तरीयक एव । रसमुल्लासयन्तोपि रसिकान् लालसयन्तोलंकारा अपि प्रायः प्रतिपद्यमेवोद्भासन्त इति पूर्वमावेदितमेव । एवं किल साहित्यशास्त्रस्य लक्षणीयानामगानामुदाहरणभूतः सोयं ग्रन्थ इति स्पष्टमस्य गौरवं बुद्धरन्तः संतिष्ठते । इदानीमस्माकं तस्य साहित्यस्य लक्षणशास्त्रमितः सुता प्राचीनं भवेत् , यद्धि अस्यां सप्तशत्यामामूलचूडमनुगम्यत इति प्रतिभावद्भिरनुमातव्यं भवेत् । यदाऽस्माकं साहित्यस्य लक्षणशास्त्राण्येवातिप्राचीनतमानि सिध्यन्ति ततस्तु लक्ष्यभूतमस्माकं काव्यवाङ्मयं तु कियत्पुरातनं सिध्येदिति खत एव बुद्धिमतां मतिमा. करेत् । यतो हि पूर्व लक्ष्याणि काव्यान्युद्भवन्ति ततो बहुलीभूतेषु तेषु तान्युदाहर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org