________________
भूमिका। मानमपि चुम्बति । यद्यपि तस्मिन्समये समाजस्यैव तादृशी रुचिरासीत् , नात्र केवलं राज्ञ एव निर्देशदोष इति वक्तुं शक्येत, परमेकस्य माननीयस्य विशालराज्याधिपस्य विदुषो राज्ञः परितोषाय तदाज्ञया निर्मिते संग्रहे समाजस्य रुचिः प्रधानीभवेदेतदपेक्षया तस्य राज्ञ एव तस्मिन्समये वयोविशेषवशात्तादृशी रुचिरासीदित्येव साधनं युक्तिसंगतम् । ततश्च रतिरसतरङ्गसङ्गसंवाहितः सोयं नरपालस्तादृशान्येव काव्यानि तस्मिन्समयेऽभिरोचयामासेति सिध्यति । एवंविधकाव्याभिरुचिश्च यौवन एव भवतीति सोयं संग्रहः सातवाहनस्य नवतारुण्यविलाससंसूचक एवेति स्पष्टमेव । अयं विषयः परस्तादपि समालोच्यतेत्यलं विस्तरेण । - इयं रचना भारतीयसाहित्यस्य पूर्णतादशायां निरमीयतेत्यस्या गुम्फगुणगौरवेण निर्णयं भवेत् । प्राकृतभाषाप्येवंविधरचनाप्रकाशनेन पूर्णतममुन्मेषं गतवतीति पूर्वमुक्तमेव विस्तरतः। अत एव शालिवाहनस्य शासनं प्राकृतप्रसाराय सुप्रसिद्ध साहित्यगोठ्याम् । यथा हि सरस्वतीकण्ठाभरणे
के नासन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः।।
काले श्रीसाहसाङ्कस्य के न संस्कृतभाषिणः ॥ ॥ आत्यराजः शालिवाहनः । साहसाङ्को विक्रमादित्य इति टीकाकारो रत्नेश्वरमिश्रः । प्राकृतभाषापरिग्रहणेपि तस्मिन्समये ह्येतत्परिचितसमाजे बौद्धधर्मस्य प्रभावः सुत. रामपगतोभवत् । अस्यां हि मूलादारभ्यान्तपर्यन्तं शिवपार्वत्योर्लक्ष्मीनारायणयोश्च मङ्गलस्तुतिरूपः शृङ्गारो वर्ण्यते । स्थाने स्थाने गणपतिः स्तूयते । स्थले स्थले सरखत्याः स्तुतिसंकथा प्रस्तूयते । तदेतदादिभिः सनातनार्यधर्मस्याग्रहः सुस्पष्टतरो भवति । अवश्यं बौद्धधर्मस्यापि भारते तस्मिन्समये चर्चा नासीदित्यपि न वक्तुं पार्येत । अस्ति हि बौद्ध भिक्षुणामपि वर्णनमस्यां सप्तशत्याम्
शुकमुखसच्छायैः किल पलाशकुसुमैर्विराजते वसुधा ।
बुद्धस्य चरणवन्दनपतितैरिव भिक्षुसंघातैः ॥ ४८ पीतश्यामवर्णशबलानि किंशुकपुष्पाणि परितस्तथा पतितानि सन्ति यथा मध्ये आसीनस्य बुद्धस्य चरणवन्दनार्थ दण्डवत्पतिता असंख्या भिक्षवो भवेयुः । श्यामवर्णानां किंशुकवृन्तानां शिरःसाम्यम् , तत्पत्राणां च पीततया पीतवस्त्रसादृश्य मित्येवंरूपेण तस्मिन्समये बहुतरमावर्तमानस्य बौद्धोपदेशसमाजस्य चित्रणं तचर्चा स्वसहचरी सूचयति । सहैव च बौद्धान्प्रतीयापि समभवदित्यप्यनुमातुं शक्यते । मूलकारस्य विचारपरम्परां प्रकाशयति टीकाकार इति प्रसिद्ध वित्सु । टीकाकारश्च गङ्गाधरभट्टः स्फुटमत्राह'बुद्धस्येत्युत्तरार्धमपशकुनसूचनार्थमेवोपात्तमिति' । . किं चात्र तस्मिन्समय एव भारते प्रसृतप्रभावस्य श्रीमतो विक्रमादित्यभूपालस्य ग्लेषमार्गेणाभिमुखीकृता प्रसङ्गसंगता युद्धकालिकी काचित्प्रसिद्धा घटना संगृहीतास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org