________________
काव्यमाला |
घनपीनपयोधरायाः कस्याचित्कुचकलशदेशविश्रान्तां रोमावलिवल्लीमालोक्य जाताभिलाषः कश्चित्तच्छोभातिशयमेवमाह सहचरम् -
पढमं वामणविहिणा पच्छा हु कओ विअम्भमाणेण । थणजुअलेण इमीए महुमहणेण व वलिबन्धो ॥ २५ ॥ [ प्रथमं वामनविधिना पश्चात्खलु कृतो विजृम्भमाणेन । स्तनयुगलेनैतस्या मधुमथनेनेव वलिबन्धः ॥ ]
प्रथमं वामनविधिना पश्चाद्विहितो विजृम्भमाणेन । स्तनयुगले नैतस्या मधुमथनेनेव बलिवन्धः ॥ २५ ॥
२१८
प्रथमं वामनो लघुर्विधिः प्रसरप्रकारो यस्य तेन । पश्चाद्विजृम्भमाणेन वृद्धिं गतेन एतस्याः स्तनयुगलेन मधुमथनेनेव विष्णुनेव बलेस्त्रिवल्या बन्धः संबन्धः कृतः । प्रवृद्वयोरस्याः स्तनयोः परिसरपर्यन्तं त्रिवली विश्रान्तेत्यर्थः । मधुमथनेनापि पूर्व सर्वरूपधारिणा पश्चादत्यन्तं प्रवृद्धेन सता बलेस्तन्नामकस्य दैत्यराजस्य बन्धो विहित इत्यर्थो - संयः । श्लेषोत्थापितयानयोपमया - मधुमथनेन यथा त्रैलोक्यमायत्तीकृतमेवमियमपि सर्वान् वशीकरिष्यतीति नायिका सौन्दर्यातिशयो ध्वन्यते ।
गुणगणशालिनीमपि नायिकामन्यस्याः कृते व्यथयन्तं धूर्तनायकमुपालभमाना नायिकासखी निजसखीमन्यापदेशेनाह
मालकुसुमाइँ कुलुञ्चिऊण मा जाणि णिधुओ सिसिरो । कावा अजवि णिग्गुणाएँ कुन्दाणं वि समिद्धी ॥ २६ ॥ [ मालतीकुसुमानि दग्ध्वा मा जानीहि निर्वृतः शिशिरः । कर्तव्याद्यापि निर्गुणानां कुन्दानामपि समृद्धिः ॥ ]
कुसुमानि मालतीनां दग्ध्वा मावेहि निर्वृतः शिशिरः । कर्तव्या विगुणानां कुन्दानामपि समृद्धिरथ ॥ २६ ॥
,
मालतीनां मालती वृक्षाणाम् । शिशिरः शीतर्तुः । निर्वृतः सुखित इति मा अहि जानीहि । अथ अद्यापि । गन्धगुणरहितानां कुन्दानाम् । अनेन च - सौन्दर्यानुरागादिगुणशालिनीमिमां हित्वा वाह्यरूपमात्रसारायामन्यस्यां तवासक्तिनौचितेति शुभ्वन्तं नायकं प्रत्यभिव्यज्यते । मालतीनामिति बहुवचनेन - इयं मत्सख्येव त्वया व्यलीकचेष्टितैर्नोपताप्यते किन्तु पूर्वमन्या अपि त्वया एवमेव क्लेशमनुभाविता इति गूढोपालम्भो ध्वन्यते । कुन्दानामिति बहुत्वेन मत्सखीसपत्न्यामेकस्यामेव ते संप्रति नानुरागोऽन्यत्रापि बहुत्र जसीत्याक्षिप्यते । 'दुष्टो न केवलं साधूनामपकारमात्रं करोति, किं त्वसाधूनामुपकारमपीति कोप्यन्यापदेशेनाह' इति गङ्गाधरावतरणम् । 'न केवलं तव दौर्भाग्यं मया कृतं किं तु त्वत्सपत्नीनां सौभाग्यमपि मया विधेयमित्यप्रियवादिनीं नायिकां प्रति कुपितनायकेन ध्वनितमिति केचित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org