________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२१७ भावः । पर्यन्ते तु-नदीतटे वक्षुलनिकुञ्जो योस्माकं संकेतस्थानमभूत्तस्य शुष्कीभूतत्वेन लोकानां दृष्टिपातभयानदानीं तत्र समागमः साधयितुं शक्यत इति शृण्वन्तमुपपति प्रति ध्वन्यते।
अस्थिरस्नेहान्नायकादुद्विग्ना काचिच्छृण्वन्तं कञ्चन मनोहरं जनमवसरप्रदानेनोत्कण्ठयन्ती रहस्यान्तभुक्ताया मातृष्वसुः संलापव्याजेनाह--
खणभङ्गुरेण पेम्मेण माउआ दुम्मिअम एत्ताहे । सिविणअणिहिलम्भेण व दिट्ठपणटेण लोअम्मि ॥ २३ ॥ [क्षणभङ्गुरेण प्रेम्णा मातृष्वसः दूनाः स्म इदानीम् ।
स्वमनिधिलम्भेनेव दृष्टप्रनष्टेन लोके ॥] हे मातृष्वसरधुना प्रेम्णा क्षणभङ्गुरेण दूनाः स्मः।
स्वप्ने निधिलम्भेनेव दृष्टनष्टेन लोकेस्मिन् ॥ २३॥ स्वप्ने निधिलाभेनेव दृष्टनष्टेन, दृष्टिपथमागत्य लुप्तेन । क्षणभङ्गुरेण प्रणयेनाधुनाऽस्मिल्लोके दूना व्यथिताः स्मः । अहं त्वत्प्रणयं निधिलाभमिव परमबहुमानभाजनं मंस्ये परं स स्थिरो भवेदन्यथा तु पूर्ववन्मे मानसोद्वेगकर एव भविष्यतीति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते । अधुनेत्यनेन पूर्व नासीन्मे तावान्प्रणयस्थैर्यपरिचयः, इदानीं तु क्षणभङ्गुरादहमुद्विजामीति प्रणयपरिचयचतुरायां मयि सांप्रतं प्रतारणाप्रयत्नो विफल एव भवेदिति व्यज्यते ।
धूर्तेन नायकेन नातिचिरेणैव खण्डितप्रणयां नायिकां प्रतिबोधयन्ती सखी अन्यापदेशेनाह
चावो सहावसरलं विच्छिवइ सरं गुणम्मि वि पडन्तम् । वङ्कस्स उजुअस्स अ संवन्धो किं चिरं होइ ॥ २४ ॥ [चापः स्वभावसरलं विक्षिपति शरं गुणेऽपि पतन्तम् ।
वक्रस्य ऋजुकस्य च संबन्धः किं चिरं भवति ॥] चापः स्वभावसरलं क्षिपति शरं किल गुणेपि निपतन्तम् ।
ऋजुकस्य च वक्रस्य च संबन्धः किं चिरं भवति ॥२४॥ चापो धनुः स्वभावेन सरलमृजुकम् , गुणे प्रत्यञ्चायां निपतन्तमपि संबध्यमानमपि शरं बाणं क्षिपति दूरं परिचालयति । एतत्समर्थनायार्थान्तरन्यासमाह-ऋजुकस्य कुटिलस्य च संबन्धः किं चिरकालं यावद्भवति, नेत्यर्थः । प्रस्तुतेऽर्थे तु-स्वभावेन सरलं निष्कपटम् , गुणे सौन्दर्यादौ निपतन्तमनुरागेणाभिमुखीभवन्तमपि ऋजुकं जनं कुटिलः परिहरतीत्यर्थः । तथा च-पूर्व बहुतरं प्रतिबोधितापि त्वं कुटिलहृदये तस्मिन्प्रणयमाहितवती, तदिदानीमनुभव तत्परिभवफलमिति सख्या सूच्यते।
सं. गा. १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org