________________
२१६
काव्यमाला । क्षित एव पर युष्माभिरप्युपेक्षित इति सूचयितुं पूर्वार्धे 'तु' पदनिबन्धनं मच्छायायाम् । उत्तरार्धे 'अपि' पदस्य तु नापेक्षा 'यूयं कलह कारयित्वा कौतुकदर्शिन्यः स्थ अतएवोपेक्षित इत्यर्थोपरि दा_प्रकाशनार्थ तस्यानावश्यत्वात् ।
विदग्धतागर्वशालिनी काचिदात्मानुगुणं कान्तमलभमाना तत्प्राप्त्युत्कण्ठासूचनाय सखीमाह
दीसन्तो णअणसुहो णिव्वुइजणओ करेहिं वि छिवन्तो। अब्भत्थिओ ण लब्भइ चन्दो व्व पिओ कलाणिलओ ॥२१॥ [दृश्यमानो नयनसुखो निर्वृतिजननः कराभ्यां [ अपि ] स्पृशन् ।
अभ्यर्थितो न लभ्यते चन्द्र इव प्रियः कलानिलयः ॥] दृष्टोपि नयनसुखदः करसंस्पर्शन निर्वृतिं जनयन् ।
न प्राप्यतेऽर्थितोऽपि हि दयितो विधुरिव कलानिलयः॥२१॥ विधुरिव चन्द्र इव दृष्टोपि दृश्यमानोपि नयनयोः सुखकरः । दर्शनमात्रेण सुखकारकत्वं दयिते चन्द्रे चोभयत्र समानम् । करयोहस्तयोः संस्पर्शन निवृतिमलोकिकं सुखमुत्पादयन् दयितः । चन्द्रस्तु कराणां किरणानां संस्पर्शेन निर्वृतिं शैत्यसुखं जनयन् । कलानां चतुःषष्टिकलानामालय आश्रयश्चतुःषष्टिकलासम्पन्न इत्यर्थः । चन्द्रपक्षे तु षोडशकलाश्रयः पूर्ण इति यावत् । एवंविधो दयितोभ्यर्थितोपि न प्राप्यते । तथा च-अहं यावद्वैदग्ध्यशालिन्यस्मि तदनुरूपस्य सकलकलाप्रवीणस्य दयितस्य लाभो मदर्थे हस्ताभ्यां चन्द्रप्राप्तिरिवास्तीत्यात्मनः परमवैदग्ध्याभिमानः, प्राप्स्यमाने दयिते सकलकलासंपत्तेरावश्यकता चाभिव्यज्यते । ततोपि च, पूर्णचन्द्रस्य यथा प्रार्थनेपि सर्वदा न लाभस्तथा तादृशो मदनुगुणो दयितोपि यदा कदाचिल्लप्स्यते, न प्रार्थनासमकालमेवेति निजगुणगौरवख्यापनमेव प्रधानं व्यङ्ग्यमिति सुधीभिरालोच्यम् ।
कालस्य सर्वकषतां प्रतिपादयन्ती काचिन्नियतसंकेतस्थानस्य विघटनमुपपतिं प्रति सूचयति
जे णीलब्भमरभरग्गगोछआ आसि णइअडुच्छङ्गे । कालेण वञ्जुला पिअवअस्स ते थण्णुआ जाआ ॥ २२॥ [ये नीलभ्रमरभरभग्नगुच्छका आसनदीतटोत्सङ्गे ।
कालेन वक्षुलाः प्रियवयस्य ते स्थाणवो जाताः ॥] ये किल नदीतटेस्मिन् मधुकरभरभग्नगुच्छका आसन् ।
कालेन वञ्जलास्ते प्रियसख हे स्थाणवो जाताः ॥२२॥ मधुकरभरेण भन्ना गुच्छका येषाम् । वञ्जुला अशोकाः 'वञ्जुलोऽशोके' इत्यमरः । वेतसास्तु न ग्राह्या अपुष्पत्वात् । स्थाणवो निष्पत्रविटपा जाताः । मधुकरनिकरनिपातद्वारा गुच्छकभङ्गेन वृक्षाणां घनच्छायत्वं भ्रमरकदम्बसंपातेनान्धकारित्वं च सूच्यते । एवंविधाः पुष्पफलनिचिता अपि तरवः स्थूणावशेषा अभवन्नित्यहो कालमाहात्म्यमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org