________________
५ शतकम् ]
संस्कृतगाथासप्तशती।
२१५
__ वदरसंघाटी बदरयोः संघातम् , एकवृन्ते बदरफलद्वयमित्यर्थः। कर्ण कृत्वा भूषणरूपेण कर्णे संधार्य । लज्जाशीलापि सा, ग्रामरथ्यया यस्यां सर्वेपि प्रामजना यातायातं कुर्वन्ति तया रथ्यया भवनं गता । त्वत्तेन बदरसंघातमण्डनेन मण्डिताया अस्यास्तथा हर्षो जातो यथेयमात्मानं धन्यंमन्यमानतया सर्व जना एनां पश्येयुस्तत्कृते ग्रामरथ्यया भूत्वा गृहं जगामेति नायिकायाः प्रणयवहुमानातिशयो ध्वन्यते । वधूपदेन-जुषापदमधिष्ठिताया अस्या बहुलजनाकीर्णायां ग्रामरथ्यायामेवं गमनमनुचितं तथापि हृदयावेगं स्रोढुमशक्नुवतीयं स्वतो जगामेति आवेगातिशयो ध्वन्यते । लज्जालुरिति विशेषणेन साधारणदशायां स्वभावतो लज्जाशीलापि सेयं भवदर्थे एवमाविष्कृतभावास्तीति तदतिशयो व्यज्यते । 'बालक' इत्यामन्त्रणेन तु-सा त्वय्येवमनुरक्ता जाता यत्त्वत्करप्रदत्तमसारं वस्त्वपि सबहुमानमलङ्काररूपेण कर्णयोर्धत्ते । त्वं तु पिशुनजनवचनजातं कर्णयोः कृत्वा तथा निरपेक्षोसि यदेनां न बहु मन्यस इत्यहो ते उचितानभिज्ञतेत्युपालम्भो ध्वन्यते । याभ्यां कर्णाभ्यां हृदयनिवृतिकरी पूर्व स्वगुणसंकथा उपस्थापिता तयोः कर्णयोः कृत एव पूर्व पुरस्कारो दत्त एतत्सूचनाय 'कर्णे कृत्वा' इति, एतदाद्यपरिसीम व्यङ्ग्यजातं सुधीभिरनुसंधेयमित्यलम् ।
कलहान्तरितादशामनुभूय प्रियानुनयस्मरणेन गलितमाना काचिदनुशयाना सखीः प्रति सकोपानुतापमाह
अह सो विलक्खहिअओ मए अहव्वाएँ अगहिआणुणओ। परवजणचरीहिं तुहिँ उवेक्खिओ णेन्तो ॥ २०॥ [अथ स विलक्षहृदयो मया अभव्यया भगृहीतानुनयः।
परवाद्यनर्तनशीलाभिर्युष्माभिरुपेक्षितो निर्यन् ॥] अगृहीतानुनयोसौ विलक्षहृयो ह्यभव्यया तु मया।
परवाद्यनर्तिनीभिर्युष्माभिरुपेक्षितो निर्यन् ॥ २०॥ बहुतरमनुनीतवतोपि दयितस्यानुनयाऽग्रहणात् अभव्यया अभाग्यया मया अगृहीतानुनयः न गृहीतः अनुनयः पदप्रणामादिर्यस्य, अत एव विलक्षहृदयो लज्जाकोपाक्रान्तहृदयः स दयितः । परम् अन्यं पुरुषं वाद्यपूर्वकं नर्तयन्तीभियुष्माभिः, निर्यन् भवनानिर्गच्छन् उपेक्षितः बहिर्गमनतो न निवारितः । यूयं तथाविधाः स्थ यद् वाद्यं वादयित्वा अपरस्य नर्तनकौतुकं पश्यथ । अत एव भवतीभिः पूर्व मह्यं मानशिक्षा दत्ता, इदानीं त्वावयोरिमां कलहकेलिं कौतुकरूपेणावलोकयथ । एतस्मादेव कारणाद्भवनानिर्गच्छन्नसौ युष्माभिर्न वारित इत्याशयः । नर्तिनीभिरित्यत्र नर्तयन्तीति णिजन्तात्ताच्छील्ये णिनिर्बोध्यः । परस्य वाद्यपूर्वकं नर्तनमिति लोकोकेरनुसरणम् , अत एव छेकोक्त्यलंकारस्य विषयः । उक्तमप्पयदीक्षितेन-'छकोक्तिर्यदि लोकोक्तिः स्यादर्थान्तरगर्भिता' । एवमनुनयेन प्रकाशितनेहोपि वल्लभोऽवधीरितो मयका, अहो मे दौर्भा. ग्यमिति अभव्यापदसहकारसूचितोऽनुतापस्तु चरमं व्यङ्ग्यम् । अभव्यया मया तूपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org