________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१८१ मनसि शिथिलीभूतमानापि उपरितः कोपमौनेन मानमभिनयन्ती काचिन्मानिनी अनुनयार्थ नायकेन समालिङ्गिता । कोपस्य प्रशमेन, उत्कण्ठायाश्चोदयेन परिरम्भसमये अनुरागवशात्स्वत एव तस्या भुजभ्रमणविभ्रमोऽभवत् । अत एव 'भावं प्रकटयझ्यामाभ्यामहं विलक्षीकृतास्मि' इति बाहुलतिकयोरुपरि सबाष्पमभिक्रुध्यन्तीं नायिका सप्रणयदाक्षिण्यं नायक आह
मा जूर पिआलिङ्गणसरहसभमिरीण बाहुलइआणम् । तुहिकपरुण्णेण अ इमिणा माणंसिणि मुहेण ॥ ५४॥ [मा क्रुध्यस्व प्रियालिङ्गनसरभसभ्रमणशीलाभ्यां बाहुलतिकाभ्याम् ।
तूष्णीकारुदितेन चानेन मनस्विनि मुखेन ॥ दयितालिङ्गनरभसभ्रमिताभ्यां कुप्य भुजलताभ्यां मा।
एतेन ननु मनस्विनि मुखेन तूष्णीकरुदितेन ॥ ५४॥ हे मनस्विनि मानिनि तूष्णीकं यथा स्यात्तथा रुदितेन सबाष्पेण अनेन मुखेन [ उपलक्षिता] त्वम् । दयितस्य अभीष्टस्य आलिङ्गने सरभसं भ्रमः कम्पाद्युद्गमः संजातो ययोः ईदृशीभ्यां भुजलताभ्यां मा कुप्य मा कोपं कार्षीः । भुजलताभ्यामिति 'क्रुद्रुहेासूयार्थानां यं प्रति कोपः' इति चतुर्थी । प्राकृतधातुघटितस्य 'जूर' इत्यस्य विभ्रमेण मृदुक्रोधप्रदर्शनमर्थः, यस्याविकलं हिन्दीभाषा 'खिजना' । स्पर्श सुखं प्राप्तमिति कारणात् मां प्रियमनुकूलं भावयझ्यां भुजाभ्यां विभ्रमभ्रमणं स्वीकृतामिति विवशयो नयो(जलतिकयोर्दोषः, किं तु परिरम्भणापराधी अयं ते जनो दोषीति भुजयोरुपरि मा क्रोधं कार्पोरिति भावः । दोष्णोदोषरूपकारणस्याभावेपि कोपोदयात्प्रथमा विभावना । 'विभावना विनापि स्यात्कारणं कार्यजन्म चेत्' इति तल्लक्षणे पीयूषवर्षः । आलिङ्गनापराधं कृतवत्यपि वल्लभे कारणसत्तायामपि कोपस्यानुदयाद्विशेषोक्तिः । 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे' इति तल्लक्षणम् । प्रशान्तकोपा त्वमिति कम्पविभ्रमेण परिज्ञातवानहं ततश्च माधुना मुधा मानं कार्षीरित्याशयः । त्वं यदि कोपवशान्मां प्रियं न गणयसि तर्हि तथा कुर्वत्यौ भुजलते अपि किं निवारयसीति नायकस्यानुनयचातुर्यमभिव्यज्यते। पर्यन्ततस्तु कोपस्य शान्तिः, उत्कण्ठायाश्चोदय इति भावसंधिरभिव्यज्यते । 'प्रियाशयजिज्ञासया भ्रमन्तो भुजौ निर्भर्त्सयन्ती नायिका नायक आह' इति गङ्गाधरावतरणं तु स्पष्टमस्पष्टार्थम् । नायक आत्मनः कृते प्रियपदं कथं व्यवहरेत् ? 'प्रिया' पदं तु न संवध्येत, निद्राव्याजगतायास्तस्याः 'प्रिया' आशयजिज्ञासयेति विरुद्धार्थत्वादिति ।।
कुसुमावचयव्याजेन गोदावरीतटनिकटनिकुञ्ज कामप्यभिसरसीति विदितं मया ते रहस्यमिति कंचन विलासिनं सूचयन्ती जरत्कुट्टनी सपरिहासवैदग्ध्यमाह
मा वच्च पुप्फलाविर देवा उअअञ्जलीहिँ तूसन्ति । गोआअरीअ पुत्तअ सीलुम्मूलाई कूलाई ॥५५॥ सं. गा. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org