________________
१८२
काव्यमाला |
[ मा व्रज पुष्पलवनशील देवा उदकाञ्जलिभिस्तुष्यन्ति । गोदावर्याः पुत्रक शीलोन्मूलानि कूलानि ॥ ]
मा पुष्पलावक व्रज तुष्यन्त्युदकाञ्जलिभिरपि देवाः । पुत्रक गोदावर्याः शीलोन्मूलानि कूलानि ॥ ५५ ॥
मा व्रज, गोदावरीकूलमिति यावत् । देवाः केवलेनार्घ्यदानेनापि तुष्यन्ति । गोदावर्याः कूलानि शीलं सच्चरितमुन्मूलयन्ति मूलत: अपनयन्ति एवंभूतानि ( उन्मूलयतेः पचाद्यच् ) सन्ति । पुत्रकेति संबोधनेन 'मया बहुकालमेवंविधानि कौतुकानि दृष्टानीत्यात्मनः प्रागल्भ्यम्, त्वं मे स्नेहपात्रमसीति' सान्त्वनं चाभिव्यज्यते । तथा च-परिज्ञातरहस्यापि नाहं ते विरोधिनी, प्रत्युत स्नेहवशात्सहायैवेति परिहासपूर्वकमभिद्योत्यते । मा व्रजेति वाच्ये निषेधे चमत्कारविश्रान्तेस्तात्पर्यस्य चाभावात्सूक्ष्म - पिहितादयो व्यङ्ग्यसम्बन्धरमणीया अलंकारा नात्र, किन्तु 'कामं व्रज परमहं ते जाने गोदावरीतीरनिभृतविलासर सिकत्वम्' इति ध्वनिरेव । उदकाञ्जलिभिस्तुष्यन्तीत्युक्त्या जलार्थमपि गोदावरीगमनसंभवात्, देवानामर्थ्याञ्जलौ पुष्पाणामावश्यकत्वाच्च गोदावरीगमनवारणे न तात्पर्यम् । ततश्च - देवतार्चनकुसुमावचयमिषेण यदि त्वं गोदावरी निकुञ्जमभिव्रजसि तर्हि कामं व्रज, परमेवंविधैरेव कौतुकैः शुक्लीकृत केशेष्वस्मादृशेषु सोयं ते मिषः स्थूल एव । निपुणमभिज्ञातमस्माभिर्यन्मिषपूर्वकं त्वं कांचिदभिसरसि । तत्सुखेन साधय समीहितम् । अहं तेऽनुकूलैव । किन्तु न मया सह कैतवलीला ते सफला समुचिता चेति विलासिनं प्रत्यभिव्यज्यते ।
तस्यैव विरहे उन्मनायिता त्वमसि, माऽस्मत्तो गोपयेति सखी नायिकामाहवअणे वअणम्मि चलन्तसीससुण्णावहाणहुंकारम् । सहि देन्ती णीसासन्तरेसु कीस म्ह दुम्मेसि ॥ ५६ ॥ [ वचने वचने चलच्छीर्षशून्यावधान हुंकारम् ।
सखिं ददती निःश्वासान्तरेषु किमित्यस्मान्दुनोषि ॥ ] वचने वचने प्रचलच्छीर्ष शून्यावधान हुंकारम् । सखि ददती निश्वासान्तरेषु किं तापयस्यस्मान् ॥ ५६ ॥
हे सखि वचने वचने मम प्रत्येकवचने, निश्वासानाम् अन्तरेषु मध्यावसरेषु, मध्ये मध्ये निश्वासं मुक्त्वेत्यर्थः । प्रचलच्छीर्षं प्रश्नस्योत्तरप्रदानकाले संमतिं सूचयितुं प्रचलत् शीर्षं यस्मिन्नेवं यथा स्यात्तथा । शून्यावधान हुंकारं प्रियानुध्यानमग्नतया प्रत्यक्षालम्बनवस्तुनोऽभावात् शून्यं यदवधानं चित्तैकाग्र्यं तन्मध्ये हुंकारं 'शृणोमीति' सूचकं हुमिति शब्दं ददती उच्चारयन्ती त्वमस्मान् किमिति दुनोषि । एकाग्रचित्ता त्वमन्यदेव किञ्चिदजुचिन्तयसि मम वचनोत्तरे तु निरवधानमेव कम्पितशीर्ष हुंकारं ददासि । तथा चान्तरङ्गाया अपि मत्तः प्रियप्रणयं गोपयन्ती त्वं मम मनसि दुःखमुत्पादयसीति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org