________________
१८०
काव्यमाला |
काण्डर्जुका वराकी त्वयाद्य सा किल कृतापराधेन । दिवसेन शिक्षिता मुहुरलसायितरुदितजृम्भितान्यनिशम् ॥५२॥ शरकाण्डवत् ऋजुका सरला । कृतः सपत्न्यभिसारादिरपराधो येन, ईदृशेन त्वया । अद्य दिवसेन दिवसमभिव्याप्य मुहुर्वारंवारम् । अनिशं भृशमलसायित- रुदित-जृम्भितानि शिक्षिता । अद्य दिवसमात्रेण त्वया तस्यै रुदितादीनां पूर्णा शिक्षा दत्तेत्यर्थः । काण्डवदित्युक्त्या स्वभावसरलः शरकाण्डो यथा न पुनर्वक्रीकर्तुं शक्येत तथैव निसर्गसरला सेयं सपत्न्यनुरोधरूपं कृत्रिमदाक्षिण्यं दर्शयितुं न समर्था । एवं च नायिकायाः शुद्धानुरागप्रवणत्वं द्योत्यते । दिवसेनेत्यत्यन्तसंयोगे अपवर्गे तृतीयेति तृतीया । अनया च तृतीयया- 'दिवसमात्रेणैवानया विरहजनितानामलसा यितरुदितादीनां शिक्षायाः फलं प्राप्तम्' इति नायिकाया ग्लानिभावजनितो वेदनातिशयो ध्वन्यते । त्वया शिक्षा दत्तेत्यनेन रोदनादिदुःखं यत्सानुभवति तत्र भवानेव निदानमित्युपालम्भो द्योत्यते । तथा च कृतापराधेन त्वया विहितमनुनयं कोपवशादगृहत्याः दिवसं यावदनुभूतविरहवेदनायास्तस्याः साम्प्रतं ग्लानिवशान्नाधिकं विरह सहनसामर्थ्यमित्ययमेवानुनयावसर इति दूत्याभिव्यज्यते । ‘कण्णुज्जुआ' इति पाठे कर्णऋजुका कर्णदुर्बलेत्यर्थः । यथानया श्रुतं तथैवानया विश्वस्तमिति स्वभावतः सारल्यमस्या इति भावः । 'कन्या ऋजुका' इत्यर्थः” इति तु केषांचिदाग्रह एव । 'अन्यासक्तं नायकमनुकूलयितुं दूती नायिकाया विरहवैधुर्यमाह ' इति गङ्गाधरावतरणम् ।
मन्दादरतया कृतापराधमथ सद्भावशून्येन दाक्षिण्येनानुनयन्तं शठनायकं नायिकाह अवराहेहिं विण तहा पत्तिअ जह मं इमेहिँ दुम्मेसि | अवहत्थि असम्भावेहिं सुहअ दक्खिण्णभणिएहिं ॥ ५३ ॥ [ अपराधैरपि न तथा प्रतीहि यथा मामेभिर्दुनोषि । अपहस्तितसद्भावैः सुभग दाक्षिण्यभणितैः ॥ ]
अपराधैरपि न तथा प्रतीहि मामेभिरभिदुनोषि यथा । अपहस्तितसद्भावैः सुभग सुदाक्षिण्यभणितैस्ते ॥ ५३ ॥
( वारं वारं विहितैर्बहुसंख्यकैः ) एभिरपराधैरपि मां तथा न दुनोषि यथा अपहस्तितसद्भावैः अपहस्तितो हस्ताभ्यामपसारितः सद्भावः स्नेहो यैः, एतादृशैस्ते तव समधिकदाक्षिण्यभाषितैस्त्वं मां दुनोषि इति त्वं प्रतीहि विश्वसिहि । आन्तरिक स्नेहशून्येन तवानेन कृत्रिमदाक्षिण्येनापराधतोप्यधिकं मे दुःखं जायत इति भावः । मत्कृतच्छायायां दाक्षिण्यस्य 'सु' इति विशेषणेन 'अपराधं कृत्वापि कृत्रिमदाक्षिण्येन मां प्रसादयितुमभिलपति, अहो सुष्ठु ते दाक्षिण्यम् !' इत्याक्षेपोभिव्यज्यते । सुभगेति संबोध - न एवमुपेक्षणेपि अहं त्वयि कियदनुरक्ता, त्वं तु तथापि व्यलीकान्न विरमसीत्यहो ते सौभाग्यमित्युपालम्भ गर्भ प्रणयावेदनमभिव्यज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org