________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
असतीपुरतोस्माभिस्तव सुगुणान् भूरि वर्णयन्तीभिः । स्वयमेव बालक कृतोसि दुर्लभः कस्य कुप्यामः ॥ ५० ॥ असतीनामग्रतः । त्वद्गुणवर्णनेनानुरक्तास्त्वां कामयन्ते ताः । त्वं च पूर्ववल्लभां विहाय ताखेवानुरज्यसि, अत एवास्माकं दुर्लभोसि संवृत्त इति भावः । असतीपदेन भ्रष्टचारित्राखनुरज्यति, यास्तवानुरागवशात्सततं गुणवर्णनमुखरास्तासु विरज्यसीत्याक्षेपो व्यज्यते । बालकपदेन - 'याः परपरिरम्भपरायणत्वेन प्रसिद्धा असत्यः सन्ति तासां पुरतोपि ( इमा मद्दयितं वशयेयुरिति परिज्ञानेपि ) अनुरागप्रवणत्वेन तव गुणरणनिका गया उदारतया विहिता । त्वं च तासां मम चानुरागतारतम्यमविदन्नेव तास्वधिक मनुरज्यसि । अतएव एवमुचितानभिज्ञतया बालकल्पे त्वयि किं कोपेन' इत्युपालम्भो ध्वन्यते । किंपदेन वाच्यं प्रति कोपाभावात् 'क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः' इति न चतुर्थी, किंतु शेषत्वेन विवक्षया षष्ठी । तया चास्मदनुरागमुपेक्षमाणं त्वां प्रत्येव कोप इति व्यज्यते । कोपं कुर्वत्या अपि 'कस्य कुप्यामः' इति प्रतिषेवादा क्षेणलङ्कारः । 'निषेधाभासमाक्षेपं बुधाः केचन मन्वते' इति कुवलयानन्दः । तेन च नायकं प्रति कोपोभिव्यज्यते । छिञ्छई असती । 'काप्यात्मनोनुरागं तस्य चान्यासक्ति सूचयन्ती नायकमाह' इति गङ्गाधरावतरणम् ।
प्रियस्यात्मनश्च परस्परानुरागप्रकटनेन निजसौभाग्यमभिव्यञ्जयन्ती काचित्सखीमाहजाओ सो वि विलक्खो मए वि हसिऊण गाढमुवगूढो । पढमोसरिअस णिअंसणस्स गण्ठि विमग्गन्तो ॥ ५१ ॥
१७९
[ जातः सोऽपि विलक्षो मयापि हसित्वा गाढनुपगूढः । प्रथमापसृतस्य निवलनस्य ग्रन्थि विमार्गयमाणः ॥ ]
जातः सोपि विलक्षो विहस्य मयकापि गाढमुपगूढः । ग्रन्थि मार्गयमाणः प्रथमापसृतस्य वसनस्य ॥ ५१ ॥ विलक्षो लज्जितः। मयका नया । प्रथमेति० - तत् करस्पर्शात्पूर्वमेव अनुरागनिर्भरत्यात्स्खलितस्याधोवसनस्य बन्धनग्रन्थिमन्विष्यन् । तस्य लज्जानुरागरमणीयं मुखमालोक्य समुद्भवदुत्कलिकया मया तद्वैलक्ष्यमपनेतुं दयितो गाढमालिङ्गित इत्यर्थः । दर्शनमात्रादेव वसनविगलनेन औत्सुक्यातिशयो ध्वन्यते । तेन च दयितं प्रति एतावान्मेऽनुरागः, सोपि चमय्येवमनुरज्यतीति निजसौभाग्यमभिव्यज्यते ।
कलहान्तरिताया दूती नायकमनुनयाभिमुखं कर्तुं तद्विरहवैकल्यमाह
कण्डुजुआ वराई अज त सा कआवराहेण ।
अलसाइअरुण्ण विअम्भिआइँ दिअहेण सिक्खविआ ।। ५२ ।। [ काण्डर्जुका वराकी अद्य त्वया सा कृतापराधेन । अलसायितरुदित विजृम्भितानि दिवसेन शिक्षिता ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org