________________
१७८
काव्यमाला।
[ अङ्गानां तनुकारक शिक्षक दीर्घरोदितव्यानाम् ।
विनयातिक्रमकारक मा मा एनां प्रस्मरिष्यसि ॥] अङ्गानां तनुकारक शिक्षक किल दीर्घरोदितव्यानान् । विनयातिकमकारक मा मैनां प्रस्मरिष्यसि हि ॥४८॥ तन्विति भावप्रधानो निर्देशः। अङ्गानां तनुताकारकेत्यर्थः। विनयस्य गुरुजनानामाज्ञापालनस्य अतिक्रमम् उल्लंघनं कारयति तच्छीलस्तत्सम्बुद्धौ। एनां पुना मा स्मरिष्यसि । सा किल तव विरहे अङ्गानि क्षपयति, दीर्घ रोदिति, गुरुणामाज्ञामपि त्वत्कृते न किञ्चिद् गणयति, एवंविधागनुरागशालिनी मा स्मरिष्यसि-मा भूयः स्मर। विपरीतलक्षणया त्वदेकावलम्बना तां शीघ्रमेव जीवयेति दूत्याभिव्यज्यते । “विनयस्य शीलस्यातिक्रमः खण्डनं तत्कारकेति" गङ्गाधरः। त्वदनुरागपरायणया तया त्वत्कृते इयन्ति दुःखानि सोहानि, त्वं तु स्मरणमात्रमपि न करोषीत्युपालम्भः । तथा च यदि किञ्चिन्मात्रमपि तत्प्रणयानुरोधस्तर्हि तामनुसर सत्वरमिति दूत्या द्योत्यते । प्रवासोन्मुखं नायकं प्रवासान्निवारयितुं शृण्वति तस्मिन्काचित्सखीमाह
अण्णह ण तीरइ चिअ परिवड्वन्तगरुअंपिअअमस्स । मरणविणोएण विणा विरमावेउं विरहदुक्खम् ॥ ४९ ॥ [अन्यथा न शक्यत एव परिवर्धमानगुरुकं प्रियतमस्य ।
मरणविनोदेन विना विरमयितुं विरहदुःखम् ॥ ] अयि शक्यतेऽन्यथा नो प्रियस्य परिवर्द्धमानगुरु कामम् ।
मरणविनोदेन विना विरमथितुं वत विरहदुःखम् ॥ ४९ ।। अयि सखि कामं यथेच्छं परिवर्द्धमानं शनैःशनैर्वृद्धिं गतमत एव गुरु महत् , दुःसह. मिति यावत् । प्रियस्य विरहदुःखम् । भरणविनोदेन विना निजप्राणत्यागं विना अन्यथा अन्येन प्रकारेण विरमयितुं दूरीकर्तुं बत न शक्यत एवेत्यर्थः। विनोदपदेन विरहवेदनाया अग्रे मरणमपि विनोदरूपमेव, येन तत्तादृशघोरदुःखनिवृत्तिर्भवतीति विरहटुःखस्य दुःसहत्वमभिव्यज्यते। तथा च-तव प्रस्थाने विरहदुःखं मया न शक्येत सोदुम् , मरण विना च तदुपशमस्य नास्त्युपायः, अत एव शनैः शनेरुपचितं तन्मम जीवनमेव समापयेदतस्त्वमेव विदेशगमनौचित्यं विचारयेति नायकं प्रत्यभिव्यज्यते । अन्यासक्तं नायकं सवैदग्ध्यमुपालभमाना काचिदाह
वण्णन्तीहिँ तुह गुणे बहुसो अम्हेहिं छिञ्छईपुरओ। बालअ सअमेअ कओसि दुल्लहो कस्स कुप्पामो ॥ ५० ॥ [वर्णयन्तीभिस्तव गुणान्बहुशोऽस्माभिरसतीपुरतः । बालक स्वयमेव कृतोऽसि दुर्लभः कसै कुप्यामः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org