________________
४ शतकम् ] संस्कृतगाथासप्तशती।
हसितः प्रशंसता सखि चिरमावसथिकजनः पत्या ।
विधुरिति तव किल वदने वितीर्णकुसुमाञ्जलिविलक्षः॥४६॥ हे सखि ! 'अहो पश्य ते रूपमहिमानमिति' प्रशंसता श्लाघमानेन पत्या। विधुः चन्द्रोयमिति बुद्ध्या तव वदने वितीर्णः कुसुमाञ्जलिर्येन, अतएव विलक्षो लज्जितः, आवसथिकजन:-चन्द्रार्घदानादिव्रतनियमस्थो जनश्चिरं हसितः । अथवा अहो एषां वस्तुपरिचयपाटवमिति आवसथिकजनं साकूतं प्रशंसता पत्या विलक्ष आवसथिकजनो हसित इत्यर्थः। दयितादिपदमनादृत्य पत्या इत्युक्त्या सम्वन्धानुरोधेन पतिमात्रं सोऽस्या न वल्लभ इति जारं प्रति सुसाध्यत्वमस्या ध्वन्यते । तथा चैवमसामान्यलावण्यशालिनीमिमा कामयमानस्याहो ते सौभाग्यमिति शृण्वन्तमुपपर्ति प्रति प्ररोचनमभिव्यज्यते । 'जारव्यामोहनाय दूती नायिकायाः सौन्दर्यातिशयं ख्यापयितुमाह' इति गङ्गाधरः । ___ तव दुर्बलतामालोक्य तत्कारणं पृच्छन्तीभ्यः सखीभ्यः किं त्वया प्रत्युत्तरं दीयत इति शठनायकेनोका नायिका तमाह
छिजन्तेहि अणुदिणं पञ्चक्खम्मि वि तुमम्मि अङ्गेहिं । बालअ पुच्छिज्जन्ती ण आणिमो कस्स किं भणिमो ॥४७॥ [क्षीयमाणैरनुदिनं प्रत्यक्षेऽपि त्वय्यङ्गैः।
बालक पृच्छयमाना न जानीमः कस्य किं भणामः ॥] भवति प्रत्यक्षेपि प्रतिदिनमङ्गैर्नु हीयमानैहि ।
बालक नो जानीमः कस्य भणामोत्र पृच्छयमानाः किम् ॥ ४७ । हे बालक ! भवति त्वयि प्रत्यक्षेपि संनिहितेपि, प्रतिदिनं क्षीयमाणैरङ्गैरुपलक्षिताः । अत एव कि मिति दुर्बलासीति जनैः पृच्छ्यमाना वयमत्र कस्य किं भणाम इति न जानीमः। पूर्व तव विदेशगमनं दुर्बलतायां कारणमासीत् , इदानीं त्वयि संनिहितेपि, सपत्नीजनरमणादिभिस्तव दुश्चेष्टितैः संजातायाः कृशतायास्तद्विश्वासमकुर्वतीभ्यः सखीभ्यः किं कारणं वक्तव्यमित्यहं न जाने इति भावः । बालकेति संबोधनेन 'अहो त्वमुन्मुग्धः शिशुरसि यत्प्रत्यक्षव्यलीकानि कुर्वन्नपि तानि न जानासि' इति विपरीतलक्षणया आक्षेपो ध्वन्यते। तथा च तवैव व्यलीकशतैः खिन्नामपि मां त्वमेव किं प्रत्युत्तरं जिज्ञाससे, अहो ते धौर्त्यमिति नायकं प्रत्याशयोभिव्यज्यते । प्राकृते वचनस्यानियमात् 'पुच्छिजन्ती' (पृच्छ्यमाना ) इत्येकवचनेन सह जानीमो भणाम इति बहुवचनस्य संबन्धे न विरोध इति ज्ञेयम् । 'बालक उचितानभिज्ञ' इति गङ्गाधरटीका । __ पूर्वमनुरागप्रदर्शनेन कृतशीलखण्डनं ततो मन्दादरं नायकं नायिकायाः प्रणयातिशयं प्रदर्य तदनुकूलं कर्तुं दूती सवैदग्ध्योपालम्भमेवमाह
अङ्गाणं तणुआरअ सिक्खावअ दीहरोइअव्वाणम् । विणआइकमआरअ मा मा णं पम्हसिजासु ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org