________________
१७६
काव्यमाला।
निर्वचनीयसुखकारकस्य । सुरतरूपनाटके पूर्वरङ्गभूतस्य, अवगृहनस्यालिङ्गनस्य भद्रम् । भवत्विति शेषः । पूर्वरङ्गरूपणेन नाट्यविघ्नशान्तये यथा पूर्वरङ्गे नान्दीपाठाद्युपायः क्रियते येन नाट्यं निर्विघ्नमानन्दप्रसु भवेत्तथात्रापि निष्कण्टकं निधुवनसिद्धये पूर्व मानादिविघ्नविध्वंसकमवगृहनं क्रियत इति सूच्यते । पूर्वरङ्गविषये उक्तं दर्पणे-“यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥” एतत्प्रसङ्गे भावप्रकाशिकापि मनोहरमाह-"सभापतिः सभासभ्या गायका वादका अपि । नटीनटाश्च मोदन्ते यत्रान्योन्यानुरंजनात् ॥ अतो रङ्ग इति ज्ञेयः पूर्व यत्स प्रकल्पते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते ॥” तीव्रपवनेन महतोपि वृक्षस्य भङ्गो यथा भवति, तथा
आलिङ्गनेन दृढोपि मे मानो भग्न इति भावः । ___ कस्मिन्नपि युवके जातानुरागा काचित्तस्मिन् शृण्वति सति हृदयामन्त्रणच्छलेनात्मनः समागमोत्कण्ठामेवमाह
णिअआणुमाणणीसङ्क हिअअ दे विरम एत्ताहे । अमुणिअपरमत्थजणाणुलग्ग कीस म्ह लहुएसि ॥४५॥ [निजकानुमाननिःशङ्क हृदय हे प्रसीद विरमेदानीम् ।
अज्ञातपरमार्थजनानुलग्न किमित्यस्माल्लघयसि ॥] विरमाधुना हृदय हे नूनं निजकानुमाननिःशङ्क ।
अविदितपरमार्थजनानुलग्न लघयसि किमित्यस्मान् ॥ ४५ ॥ मम यथा विरहदुःखं तथान्यस्यापि स्यादिति निजानुमानेन भनोरथभङ्गशङ्कारहित हे हृदय । अतएव (निःशङ्कतया) न विदितः परमार्थः अन्यदीयविरहवेदनारूपं रहस्यं येन ईदृशे जने अनुलग्न ! भृशमासक्त ! (हृदय) अस्थाने प्रार्थनारूपेण कार्येण अस्मान् किमिति लघूकरोषि । विरमाधुनास्मात्कर्मण इत्यर्थः । निजकानुमानेत्यादिविशेषणेन अहं त्वयि बद्धदृटानुरागा समागमार्थ भृशमुत्कण्ठितेति व्यज्यते (यथाहमुत्कण्ठिता तथान्योपि स्यादिति सम्बोधनेन सूचनात् )। अस्मान् लघयसीत्युक्त्या न वयमेवंविधा लघवो यदस्माकं प्रार्थना उपेक्षणीया भवेदिति सूचनेन स्वस्यासुलभत्वं वनयति । विरमेत्यनेन अहं पूर्वानुरागस्य चरमसीमामुपगतास्मि, न मे इतोग्रे कश्चन वश इति द्योत्यते। तथा च सामान्यतोऽसुलभाग्यहं त्वत्सौभाग्येन भवन्तं कामयमानाम्मि, त्वं च न मेऽनुरागं यथावद्वेत्सीति नायिकयाभिव्यज्यते । __ समीपस्थितमुपपतिं श्रावयितुं नायिकायाः सौन्दर्यप्रशंसां काचित्सखी तां प्रत्यवमवतारयति
ओसहिअजणो पइणा सलाहमाणेण अइचिरं हसिओ। चन्दो त्ति तुज्झ वअणे विइण्णकुसुमञ्जलिविलक्खो ॥४६ ।। [आवसथिकजनः पत्या श्लाघमानेनातिचिरं हसितः। चन्द्र इति तव वदने वितीर्णकुसुमाञ्जलिविलक्षः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org