________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१७५ [अन्योन्यसंदेशानुरागवर्धमानकौतूहलानि ।
दुःखमसमाप्तमनोरथानि तिष्ठन्ति मिथुनानि ॥] अन्योन्यं संदेशानुरागसंवर्द्धमानकुतुकानि ।
दुःखं समाप्तमनोरथानि तिष्ठन्ति मिथुनानि ॥ ४२ ॥ परस्परं यः संदेशो दूतीद्वारानुरागावेदनम् , तेन ( संजनितः ) योनुरागस्तेन वर्धमानं कौतूहलं समागमौत्सुक्यं येषां तानि । न समाप्तो मनोरथः समागमामिलाषो येषां तानि । मिथुनानि युगलानि दुःखं यथा स्यात्तथा तिष्ठन्तीलर्थः । परस्परदर्शनं विना दूतीद्वारा संदेशप्रेषणेन दर्शनेपि कौतुकं द्योलते, तेनोत्कण्ठातिशयो व्यज्यते । असमातमनोरथानीत्यनेन यावदभिलषितपूर्तिर्न जायते तावदुत्कण्ठाधिक्यमिति नागरिकः स्वमार्मिकत्वं सूचयति । मिथुनं तिष्ठतीत्येव वक्तव्येपि बहुत्वं प्राकृतानुरोधेन । प्रियतमं प्रति संजनितमात्मानुरागं गोपयन्ती नायिका सखी सवैदग्ध्यमाह
जइ सो ण वल्लो विअ गोत्तग्गहणेण तस्स सहि कीस । होइ मुहं ते रविअरफंसव्विसदं व तामरसम् ॥४३॥ [यदि स न वल्लभ एव गोत्रग्रहणेन तस्य सखि किमिति ।
भवति मुखं तव रविकरस्पर्शविकसितमिव तामरसम् ॥] वल्लभ एव स न हि यदि गोत्रग्रहणेन तस्य सखि किमिति ।
भवति मुखं तव रविकरसंभेदोद्भिन्नमिव नलिनम् ॥४३॥ तस्य गोत्रग्रहणेन नामग्रहणेन । 'गोत्रं तु नाम्नि च' इत्यमरः । रविकराणां संभेदेन स्पर्शन उद्भिन्नं विकसितं कमलमिव तव मुखं किमिति भवतीति सम्बन्धः । रविकरयोगविकसितस्य कमलस्य साम्येन स्वभावसुन्दरस्यापि पद्मस्य रविकरान् विना यथा न विकासलक्ष्मीस्तथा तवापि सहजमनोहरमपि मुखं तस्य नामश्रवणेनैव लज्जानुरागजनितमपूर्वमुल्लासमनुभवतीति सूच्यते। तथा च नामश्रवणमात्रेण तवेदशमौत्सुक्यं किं पुनदर्शनादिषु सत्सु, एवं च तवानुरागमभिजानत्यां मयि नैतद् गोपनीयमिति सख्याभिव्यज्यते ।
गाढं गृहीतमानापि कथंकारमनुनीता दयितेन भवतीति रहस्याभिज्ञया मातुलान्या पृष्टा काचिदाह
माणदुमपरुसपरणस्स मामि सबङ्गणिवुइअरस्स । अवऊहणस्स भई रइणाडअपुबरङ्गस्स ॥४४॥ [मानदुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य ।
अवगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥] मानतरुपरुषमरुतो मातुलि सोशनिवृतिकरस्य।
अवगृहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥४४॥ मानद्रुमार्थ परुषपवनस्थानीयस्य । मानजनितवियोगकाले उपतप्तानां सर्वाङ्गाणाम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org