________________
१७४
काव्यमाला। [व्यतिक्रान्तालक्षितरूपयौवना पुत्रि के न दुनोषि ।
दृष्टा प्रणष्टपौराणजनपदा जन्मभूमिरिव ॥] कं नहि दुनोषि विगतानालक्षितरूपयौवना पुत्रि ।
दृष्टा नष्टपुरातनजनपदपटला हि जन्मभूमिरिव ॥४०॥ हे पुत्रि ! विगतं व्यतिक्रान्तमत एव अनालक्षितम् अवीक्षितं रूपं यौवनं च यस्या एतादृशी त्वम् । नष्टं पुरातनं जनपदपटलं जनसमूहो यस्याः सा । वहोः कालादू दृष्टा जन्मभूमिरिव त्वं कं वा न दुनोषि परितापयसि । गलितपूर्वरूपयौवनां त्वामालोक्य विनष्टजनसमूहाया आत्मनो निवासभूमेरालोकनेन यथा दुःखं भवति तथा सर्वस्याप्यालोकयितुर्भवतीत्याशयः। अनालक्षितमित्याडुपसर्गेण समन्तादपि तवाङ्गे रूपयौवनचिह्न नास्ति, एवंविधस्ते भोगोपमर्द इति योयते । जनपद-जन्मभूमिपदाभ्यां बहब एव जनाः पूर्वकाले त्वद्यौवनमुपभुक्तवन्तस्ते सांप्रतं त्वामेवंविधामालोक्य दूयन्त इति व्यज्यते । पुत्रीत्यनेन त्वयि मम निष्कपटवात्सल्यमिति विश्वसनीयत्वं द्योत्यते । ___ इमौ द्वावपि परस्परमनुरक्तावित्यात्मनो गूढे जितपरिज्ञानपाटवम भिव्यञ्जयन्नागरिकः सहचरमाह
परिओसविअसिएहिं भणिअं अच्छीहिं तेण जणमझे। पडिवण्णं तीअ वि उच्वमन्तसेएहिँ अङ्गेहि ॥४१॥ [परितोषविकसिताभ्यां भणितमक्षिभ्यां तेन जनमध्ये ।
प्रतिपन्नं तयाप्युद्वमत्स्वेदैरङ्गैः ॥] परितोषविकसिताभ्यां जनमध्ये तेन भणितमक्षिभ्याम् ।
तदभिमतं प्रतिपन्नं तयाऽङ्गकैरुद्वमत्स्वेदैः ॥४१॥ तेन नायकेन । परितोषेण अनुरागजनितेन हर्षेण विकसिताभ्याम् । अक्षिभ्यां ( करणम् ) जनमध्ये अभिमतं भणितम् । नायिकया उद्वमत्स्वेदैः निष्पतधर्मजलरङ्गैः तस्याभिमतं वाञ्छितं प्रतिपन्नं स्वीकृतम् । नयनविकासेन औत्सुक्यं द्योत्यते। तथा च त्वया मे मानसं वशीकृतमिति नायकेन नेत्रद्वारैवात्मनोभिमतं प्रकाशितम् । अङ्गेषु खेदरूपस्य सात्विकभावस्योदयात् , तयापि तं प्रत्यात्मनोनुरागं प्रकाश्य नायकस्याभिमतमङ्गीकृतमिति गूढमप्यनयोरनुरागमहं विदितवानिति नागरिकेण सूच्यते । निष्पतदिति स्थाने उद्वमदिति कथनेन खेदाधिक्यं लक्ष्यते, तथा च सात्विकभावप्रकर्षण रत्यतिशयो ध्वन्यते । अक्षिभ्यां भणितमिति अर्थान्तरसंक्रमितवाच्यम् । तेन च, स्पष्टमात्माभिप्रायः प्रकाशित इति निवेदनेऽतिशयो व्यज्यते । “वयस्यस्याभिमतं संपत्स्यत इति नायकसहचरेण पृष्टा दूती तमाह" इति गङ्गाधरावतरणम् ।
परस्परमावद्धानुरागावपि समुचितावसराप्राप्त्या समागमसौख्यं नानुभवितुं शक्नुत इति कयोश्चिदवस्थां सूचयन्नागरिकः सहचरमाह
एककमसंदेसाणुराअवड्डन्तकोउहल्लाइं । दुःखं असमत्तमणोरहाइँ अच्छन्ति मिहुणाई ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org