________________
४ शतकम् ]
संस्कृतगाथासप्तशती ।
१७३
त्वयि गतवति दर्शनपथमतिक्रम्य अदृश्यमाने सति त्वद्दर्शन कौतुकात् विकसिताभ्यामत एव कर्णपर्यन्त विस्तृताभ्यां स्फुरत् प्रसरत् अस्रम् अश्रु ययोः सकाशादेतादृशाभ्यां तस्याः ( नायिकायाः ) नयनाभ्यां कर्तृभ्यां दर्शनसुखेभ्यः पानीयं दत्तम्, न पुनरेवंविधानि दर्शन सुखानि स्युरिति तेभ्यो विसर्जन जो जलाञ्जलिर्दत्त इत्यर्थः । सुखेभ्यः पानीयं दत्तमिति छैकोक्तिः । ‘छेकोक्तिर्यदि लोकोक्तिः स्यादर्थान्तरगर्भिता' । त्वदागमन विरहदुःखान्न तया रुदितं किन्तु स सुखेभ्यो जलाञ्जलिर्दत्त इत्यपह्नुतिर्व्यज्यते । किंवा ' न पुनरेवंविधस्य दर्शनमुखस्याशेति तस्मै जलाञ्जलिरिव प्रत्तः' इत्युत्प्रेक्षा । अन्ततस्तु त्वद्दर्शनसुखस्याग्रे सा न किञ्चित्सुखं गणयति इति सुखेभ्य इति बहुवचन सहकारेण नायिकानिष्टोऽनुरागातिशयो ध्वन्यते । सुभगेत्यामन्त्रणेन 'पश्य ते सौभाग्यं यत्सा त्वय्येवं दृढानुरागा' इति नायकप्रोत्साहनं ध्वन्यते । नयनयोः कर्णलग्नतायां तु" श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोरित्यनुसारं गुणश्रवणेनैव पूर्वं नायिकाया नायकेऽनुरागोऽभवत् । ततश्र रूपगुणकीर्ति श्रावयद्भ्यां कर्णाभ्यामेव स्वल्पसमागमसुखोत्तरं सेयं विरहवेदना दत्तेति, उपालम्भदानार्थमित्र नयनयोर्गमनम्" इति 'नु' पदोत्प्रेक्षितं तात्पर्यं ध्वन्यते । काचित्प्रोषितभर्तृका प्रियतमं प्रति संदेशं प्रहिण्वती आह—
उप्पेक्खागअतु अमुहदंसणपडिरुद्धजीविआसाइ |
दुहिआइ मए कालो कित्तिअमेत्तो व अघो ॥ ३९ ॥ [ उत्प्रेक्षागतत्वन्मुखदर्शनप्रतिरुद्धजीविताशया ।
दुःखितया मया कालः कियन्मात्रो वा नेतव्यः ॥ ] ध्यानागतभवदाननदर्शन विनिरुद्धजीवितैषणया ।
दुःखितया हि मया किल कालो नेयः कियन्मात्रः ॥ ३९ ॥
ध्यानेन भावनया आगतं यत् त्वन्मुखं तस्य दर्शनेन विनिरुद्धा स्थापिता जीवितैषणा जीविताशा यया एतादृश्या दुःखाकुलया मया कियत्परिमाणः कालो यापनीयः । अहं तवानुध्यानादेव जीवामि नान्यन्मेऽवलम्बन मित्यात्मनोऽनुरागो ध्वन्यते । जीविताशयेत्यनेन विरहदुःखान्मम जीवने निर्वेद एवं जातः परं भावनया आगतं त्वन्मुखं दृष्ट्वा तत्सुखमनुभूय "भावनयैव एतावत्सुखम्, प्रत्यक्षदर्शनं तु न जाने कियन्मात्रं स्यादिति त्वद्दर्शनप्रत्याशयैव मे जीवितस्थितिरिति" प्रियतमं प्रति सूच्यते । कियन्मात्रो नेतव्य इत्यनेन नाधिककालमेवं जीवेयमिति आगमनत्वरार्थं सूचयति । 'निरुद्ध' पदेन 'जीविताशा तु दुःखनिर्विण्णा वेगेन गच्छन्त्यासीत् परं बलपूर्वकं तन्मुखध्यानेन सा वारिता' इति विरहातिशयो ध्वन्यते ।
पूर्व रूपयौवनसम्पन्नामपि बहूपभोगेन संप्रति विगतरूपयौवनां कांचन कुलटामालोक्य कुट्टन्याह
वोलीणालक्खि अरूअजोवणा पुत्ति कं ण दुम्मेसि । दिट्ठा पण पोराणजणवआ जम्मभूमि व ॥ ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org