________________
काव्यमाला।
श्वश्रूः नवाभ्राणां नवीनमेघानां दर्शनेन कण्ठागतजीवितामेतां खुषाम् । सुतस्य निज. पुत्रस्य पुनरुज्जीवनमहौषधिमिव अनन्यकमैव त्यक्तान्यव्यापारैव सती रक्षति । विरहवेदनया संस्थितायामस्यां मम पुत्रोपि न भवेदित्याशङ्कया तां सतकमुपचरतीत्यर्थः । सुतस्य संजीवनौषधिमिवेत्यनेन पुत्रोस्यामेकान्ततो बद्धप्रणय इति अनुभवमार्मिकत्वं श्वश्र्वा द्योत्यते । नवाभ्रेत्यनेन पूर्वमननुभूतस्य सहसैव सजलजलदावलोकनसमुद्दीपितस्य विरहस्य दुःसहत्वं ध्वन्यते । अनन्यकमैवेत्यनेन सर्वस्मिन्नेव काले स्नुषायाश्चिन्तासंतापस्ततो विरहदुःखस्यातिशयः सूच्यते । पुत्रप्रेमवशात् सावधानं विहितेन श्वश्रूकृतोपचारेण निजवल्लभालम्बनाया नायिकानिष्टरतेरतिशयः, पर्यन्ततो ध्वन्यत इति सुधीभिरनुसन्धेयम् । “प्रोषितभर्तृकायाः सखी तत्कान्तस्यागमनत्वरार्थ तत्समीपगामिनं पथिक. माह" इति गंगाधरावतरणम् ।
केवलं वल्लभायैवोक्तं सुगुप्तं निजमनोभिलाषं सपत्न्या मुखादाकर्ण्य रहस्यभङ्गात्कोपमुपगता नायिका प्रियतममुपालभमाना सवैदग्ध्यमाह--
णूणं हिअअणिहित्ताइ वससि जाआइ अम्ह हिअअम्मि । अण्णह मणोरहा मे सुहअ कहं तीअ विण्णाआ ॥ ३७॥
[नूनं हृदयनिहितया वससि जाययास्माकं हृदये। ____ अन्यथा मनोरथा मे सुभग कथं तया विज्ञाताः ॥] निवससि हृद्यनिहितया हृदयेऽस्माकं स्वजायया साकम् ।
कथमन्यथा तया मे मनोरथाः सुभग विज्ञाताः ॥३७॥ हे सुभग हृदयनिहितया खजायया सह अस्माकं हृदये निवससि । अन्यथा एतदभवे तया मे मनोरथाः कथं विज्ञाताः ? मनोगतपरिज्ञानरूपस्य हेतोविन्यासात्काव्यलिङ्गम् । तेन च अहर्निशं त्वामेव हृदयेऽनुचिन्तयाम्यहम् , परं त्वं मां विहाय तस्यां सपन्यामनुरक्तः । अत एव गोपनीयमपि रहस्यं तस्याः प्रकाशयसीति गूढोपालम्भो ध्वन्यते । खजायेत्यनेन 'सैव ते साम्प्रतं पत्नी यस्यास्त्वं मद्विश्रम्भजल्पितमपि प्रकाशयसि । अहं तु स्त्रीसामान्यमिती'ाऽभिव्यज्यते। सुभगेत्यनेनापि "अहमन्यस्यामनुरक्तस्तथापीयं मामेवानुध्यायतीत्यात्मनः सौभाग्यनैवावलिप्तोसि" इति गूढमुपालम्भो द्योत्यते । "खण्डिता प्रातरागतं नखदन्तक्षताङ्कितं कान्तं सेय॑माहेति" गंगाधरावतरणम् । नायिकायाः प्रणयातिशयं प्रकाशयन्ती दूती नायकमाह
तइ सुहअ अईसन्ते तिस्सा अच्छीहिँ कण्णलग्गेहि । दिण्णं घोलिरवाहेहिँ पाणि सणसुहाणम् ॥ ३८ ॥ त्वियि सुभग अदृश्यमाने तस्या अक्षिभ्यां कर्णलग्नाभ्याम् ।
दत्तं घूर्णनशीलबाष्पाभ्यां पानीयं दर्शनसुखेभ्यः ॥] अयि सुभग त्वयि गतवति तन्नयनाभ्यां नु कर्णलग्नाभ्याम् । दत्तं स्फुरदस्त्राभ्यां पानीयं हन्त दर्शनसुखेभ्यः ॥ ३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org