________________
संस्कृतगाथासप्तशती ।
गेयच्छलेन कस्य स्मृत्वा रोदिपि सुनिर्भरोत्कण्ठम् । मन्युनिरुद्ध गलाद्धन्निर्यत्स्खलिताक्षरोल्लापम् ॥ ३४ ॥
४ शतकम् ]
गेयच्छलेन गानव्याजेन । कस्य स्मृत्वा कं स्मृत्वा, कर्मणः शेषत्वविवक्षया षष्टी | सुनिर्भरा उत्कण्ठा यस्मिन्कर्मणि यथा भवति तथा । मन्युना शोकेन रुद्धो यो गलः कण्ठस्तस्मात् अर्द्धम् उन्निर्यन् निःसरन्, अतएव स्खलिताक्षरः स्खलितान्यक्षराणि यस्मि - नीदृश उल्लापो वाक्यविन्यासो यस्मिन् कर्मणि यथा भवति तथा । त्वं रोदिषीति स्वरहस्यं मह्यमावेदयेत्यर्थः । मन्युरुद्धकण्ठं स्वलिताक्षरमिति क्रियाविशेषणान्यां हृदये भावानां भृशमावेशोभिव्यज्यते । तेन त्वं कंचित्स्मृत्वैवोत्कण्ठया रोदिषि न पुनर्गानमेवं भवतीति विदितं मया । तन्मयि विश्वस्य रहस्यं प्रकाश्यतां येनाहमेवं खेदमनुभवन्त्यास्ते साहाय्यं संपादयामीति दूत्या नायिकां प्रत्यभिव्यज्यते ।
१७१
स्वयं दूती प्रतिवेशिनमुपपतिं प्रति संकेतसमयं सूचयितुमाहबहलतमा हअराई अज पउत्थो पई घरं सुण्णम् । तह जग्गे अजिअ ण जहा अम्हे मुसिजामो ॥ ३५ ॥ [ बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥ ] बहलतमा हतरात्रिः पतिरद्य प्रोषितो गृहं शून्यम् । प्रतिवेशिन्नयि जागृहि तथा; विमुष्यामहे न यथा ॥ ३५ ॥
बहलं निबिडं तमः अन्धकारो यस्याम् । अनेन अन्धकारवशान्नागच्छन्तं कोपि विलोकयिष्यतीति द्योत्यते । अद्यैव प्रोषित इत्यनेन अद्यैव प्रवासं गतस्य तस्यागमनशङ्का नास्तीति विश्रब्धत्वं व्यज्यते । गृहं शून्यमित्यनेन, अन्यजनशङ्कारहितेस्मिन्नेव गृहे आगम्यतां नान्यदिवसवत् भवद्गृह इति संकेतो ध्वन्यते । तथा जागृहि यथा न विमुष्यामहे इत्यनेन त्वं सन्नद्धो भूत्वा इममवसरं प्रतिपालय, अन्यथा भाग्यवशादुपलब्धस्यास्यावसरस्यावधीरणे वञ्चिता एव वयमिति सतकीकरणमभिव्यज्यते । एवंविधवाक्चातुर्येण नायिकायाः प्रौढिः प्रागल्भ्यं च ध्वन्यते ।
पूर्ववयसि आत्मनाऽनुभूतं दुःखमनुसन्धाय गृहिणीपदप्राप्तौ स्नुषादिष्वपि सदयमेव व्यवहरन्ति कुटुम्बिन्य इत्यात्मनो व्यवहारपाटवमभिव्यञ्जयन्नागरिकः सहचरमाहसंजीवणोसहिम्मिव सुअस्स रक्खइ अणण्णवावारा । सासू णव भदंसणकण्ठागअजीविअं सोहम् ॥ ३६ ॥ [ संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा । श्वश्रूर्नवाभ्रदर्शन कण्ठागतजीवितां स्नुषाम् ॥ ] संजीवनौषधीमिव सुतस्य रक्षत्यनन्यकर्मैव । श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषामेताम् ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org