________________
१७०
काव्यमाला ।
सूरच्छलेण पुत्तअ कस्स तुमं अञ्जलिं पणामेसि । हासकडवखुम्मिस्सा ण होन्ति देवाण जेकारा ॥ ३२ ॥ [सूर्यच्छलेन पुत्रक कस्मै स्वमञ्जलिं प्रणामयसि ।
हास्यकटाक्षोन्मिश्रा न भवन्ति देवानां जयकाराः ॥1 सूर्यच्छलेन कस्मै त्वमञ्जलिं पुत्रक प्रणामयसि ।
हास्यकटाक्षोन्मिश्रा देवानां नो भवन्ति जयकाराः ॥ ३२॥ अञ्जलिं प्रणामयसि अञ्जलिं बध्वा प्रणामं करोषीत्यर्थः । देवानां जयकाराः जय जयेत्यादिकाः स्तुतयः । हास्येन, कटाक्षेण नेत्रप्रान्तावलोकनेन च संपुटिता न भवन्तीत्यर्थः । पुत्रकेति सम्बोधनेन प्रणयभाजनत्वं लक्ष्यते। तेन "त्वयि मम भूयान्नेहः, अत एव रहस्यवेदिन्यां मयि सूर्यप्रणामादि कपटमपहाय सत्यं वद, कस्यामनुरक्तोसि, अहं ते कार्य साधयिष्यामि, न पुनस्तवापवादं प्रचारयिष्यामि' इति नायकं प्रति विश्वासोत्पादनमभिव्यज्यते। निजदयितरतासक्तां नायिकां चौर्यसुरतप्रशंसया उत्कण्ठयितुं दूती काचिदाह
मुहविज्झविअपईवं णिरुद्धसासं ससङ्किओल्लावम् । सवहसअरक्खिओढें चोरिअरमिअं सुहावेइ ॥३३॥ [मुखविध्मापितप्रदीपं निरुद्धश्वासं सशङ्कितोल्लापम् ।
शपथशतरक्षितोष्टं चोरिकारमितं सुखयति ॥] मुखविध्मापितदीपं रुद्धश्वासं सशङ्कितोल्लापम् ।
शपथशतरक्षितोष्टं सुखयति किल चोरिकारभितम् ॥३३॥ हस्तादिवायुना शब्दो विलम्बश्च स्यादिति मुखेन मुखवातेन विधमापितो निर्वापितः प्रदीपो यत्र तत् । मा कश्चन श्रौषीदिति निरुद्धः श्वासो यत्र, शङ्कितेन शङ्कया सह उल्लापः संलापश्च यत्र तत् । अधरदेशनेन गृहजनो मा ज्ञासीदिति शपथशतेन शपथशतं कारयित्वा रक्षितो दंशनाद् गोपितः ओष्ठोऽधरो यत्र तत् । चोरिकया चौर्यण रमितं रमणम् । तथा चैतादृशं सुखं खानुभवेनैव त्वं ज्ञास्यसीति दूतीकृतमुत्कण्ठासंवर्द्धनमभिव्यज्यते। __ गानव्याजेन त्वं कंचन प्रणयिनं सोत्कण्ठमनुध्याय रोदिषीति अहं जाने इति नायिकायाः स्वस्मिन्विश्वासमास्थापयन्ती दूती नायिकामाह
गेअच्छलेण भरि कस्स तुमं रुअसि णिब्भरुक्कण्ठम् । मण्णुपडिरुद्धकण्ठद्धणिन्तखलिअक्खरुल्लावम् ॥ ३४ ॥ [गेयच्छलेन स्मृत्वा कस्य त्वं रोदिषि निर्भरोत्कण्ठम् । मन्युप्रतिरुद्धकण्ठार्धनिर्यस्खलिताक्षरोल्लापम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org