________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१६९ तीक्ष्णपलालोल्लिखितानि वहति पथिको हिमागमविभाते ।
अङ्गान्याचमनाम्भ:स्तिमितकरस्पर्शमसृणानि ॥३०॥ पथिको हिमागमस्य विभाते प्रभाते 'व्युष्टं विभातं द्वे क्लीवे पुंसि गोसर्ग इष्यते' इत्यमरः । तीक्ष्णाः ये पलालाः क्षेत्रेषु छिन्नधान्याग्रगुच्छकास्तृणकाण्डास्तैः उल्लिखितानि अवघृष्टानि अङ्गानि । आचमनस्य प्रातर्मुखगण्डूषकरणस्य यत् अम्भः जलं तेन स्तिमितः आईः यः करस्तस्य स्पर्शेन मसृणानि चिक्कणानि वहति धारयति । पूर्वदिने छिन्नधान्यकणिशेषु क्षेत्रेषु चलनेन तृणकाण्डोल्लिखितान्यङ्गानि प्रातःकाले आचमनजलाकरेण ममृणानि कृत्वा तानि विगतवेदनानि करोतीत्यर्थः । 'नाडी नालं च काण्डोस्य पलालोऽस्त्री स निष्फलः' इत्यमरः। सिप्पिरं पलालः, ओलिओ आर्द्रितः, इति देशीद्वयम् । तथा च, निर्भरानङ्गसङ्गररमणीयेऽस्मिन् समये यदि भवानपि प्रवासमङ्गीकरिष्यति तर्हि भवद्भवतोपि सेयमवस्था, तत्स्थगय गमनविचारमिति नायिकया कान्तं प्रत्यभिव्यज्यते ।
स्वस्मादतिशयितरूपगुणशालिनीमुत्तमस्त्रियमाग्रहेण परिगृहीतवतः कस्यचिदधमस्य वरवर्णिनीलाभलालसयाऽनुसरणं कुर्वन्तं कामुकजनं प्रदर्य, उत्कृष्ट नायिकापरिग्रहप्रयतं कंचिदधर्म स्वाध्यवसायान्निवारयितुं कश्चिदन्यापदेशेनाह
णक्खक्खुडिअं सहआरमञ्जरिं पामरस्स सीसम्मि । बन्दिम्भिव हीरन्ती भमरजुआणा अणुसरन्ति ॥ ३१ ॥
[नखोत्खण्डितां सहकारमारी पामरस्य शीर्षे । - बन्दीमिव ह्रियमाणां भ्रमरयुवानोऽनुसरन्ति ॥] सहकारमअरीं किल पामरशीर्षे नखरलूनाम् ।
ह्रियमाणां वन्दीमिव मधुपयुवानोऽनुधावन्ति ॥ ३१ ।। बलात् ह्रियमाणां वन्दीकृतां स्त्रियं यथा तद्विमोचनकामनया युवानोनुसरन्ति तथा नखैरुत्खण्डितां पामरशीर्षस्था सहकारमञ्जरी भ्रमरयुवानोऽनुसरन्तीति भावः। पामरशीर्षे इत्यनेन अलभ्यलाभां तामाकलय्य सोत्यादरेण तस्यां व्यवहरतीति व्यज्यते । नखरैनामित्यनेन 'न स्वयमुपलब्धा प्रत्युत बलात् सा आकर्षितेति' तस्या अधमेऽननुरागो ध्वन्यते । तथा च यद्येवं त्वमप्युत्तमां स्त्रियं बलात्परिग्रहीष्यसि तर्हि तवापि युवभिरभिधावनं भविष्यतीति तं प्रत्यभिव्यज्यते । वस्तुतस्तु-अधमेन केनचिट्ठलादपहृत्य विपदमवापितां नायिकामुपेक्षमाणस्य नायकस्य शिक्षायै नायिकासखी तदुद्धरणाय त्वरयितुमन्यापदेशेनाह-भ्रमरैर्यस्याः सहकारमञ्जर्याः पूर्वं रसोनुभूतस्तां नखखण्डनखेदखिन्नां पामरजनसङ्गपतितां चालोक्य तदुद्धारकामनया अवशत्वेपि तस्या अनुसरणं क्रियते । भवांश्च समर्थोपि नागरिकतामनभिवीक्ष्य तामुपेक्षत इत्यहो ते सार्थपरायणता, तदुद्धर तां द्रुतमिति नायकं प्रत्यावेद्यते । ___ कांचन सुन्दरीमभिलक्ष्य त्वं प्रणत्यादिचेष्टां करोषीति त्वं मयाभिलक्षितोसीति सूचयन्ती काचित्प्रौढा दूती नायकमाह
सं. गा. १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org