________________
१६८
काव्यमाला।
अयि भूरिनिर्दय ! पिनद्धनवरगया पिनद्धं धारितं नूतनरक्तवस्त्रं यया, वराक्या दयतीयया तया गृहपरिपाट्या गृहाद् गृहमित्यनुक्रमेण । वायनकानि प्रहेणकानि नीतानि । 'प्रहेणकं वायनकम्' इति हारावली । 'बायन' इति व्रजभाषा । वायनकप्रदाने यावन्तो गृहमनुष्या भवन्ति तावन्त्येव वायनानि प्रदीयन्त इति गृहान्तःप्रविष्टाया विलम्बसंभवेपि गणनाव्याजेन तन्निगूहन मिति नायिकायाश्चातुर्यमपि सूच्यते । पिनद्धनवरङ्गयेति स्वस्य प्रसाधनेच्छया प्रियदर्शने उत्साहः, तं प्रत्यनुरागश्चाभिव्यज्यते । 'अनलता दर्शनपथं परिहरति' इति वात्स्यायनः । 'भूषाविहीना न ददाति दर्शनम्' इत्यादि इच्छाशालिन्या लक्षणमिति चानणरङ्गम् । तथा च-पश्य तव सौभाग्यं यत्तव दर्शनमात्रार्थं सा गृहगृहभ्रमणायासमकिञ्चिद् गणयन्ती परिताम्यति । अत एवंविधप्रणयशालिन्यां तस्यां त्वरितमनुकम्पितव्यमिति दूत्या नायकं प्रत्यभिव्यज्यते।
धनशालिनं कंचिदनादृत्य दरिद्रनायकेऽनुरक्तां कांचन निवारयन्ती सखी दुर्गतानां लक्षणानि सूचयितुमाह
सूइजइ हेमन्तम्मि दुग्गओ पुप्फुआसुअन्धेण । धूमकविलेण परिविरलतन्तुणा जुण्णवडएण ॥ २९ ॥ [सूच्यते हेमन्ते दुर्गतः करीषाग्निसुगन्धेन ।
धूमकपिलेन परिविरलतन्तुना जीर्णपटकेन ॥1 सूच्यत इह हेमन्ते करीषशिखिगन्धिनातिदुर्गतकः ।
परिविरलतन्तुना बत जीर्णपटेनैव धूमकपिलेन ॥ २९ ॥ करीषाग्नेर्गन्धो विद्यते यस्मिन्नेवंविधेन । करीषाणां पशुविचरणस्थानेभ्यो निर्मूल्यं सुलभत्वात् , बहुकालस्थायित्वाच तदग्नेः, तत्संग्राहकस्य दरिद्रस्य दीनतातिशयः सूच्यते । करीषाग्निधूमात् कपिलेन धूम्रवर्णन । करीषाग्निः शनैर्मन्दो भवति चेदतिसमीपस्थित्या तापोनुभूयत इति तस्यामवस्थायां बहुकालं धूमानुभवेन वस्त्रस्य कपिशवर्णत्वं जायत एवेति सूच्यते। परिविरलतन्तुना बहोः कालादेकस्यैव धारणेन बहवस्तन्तवो विशीर्णा इति असान्द्रसूत्रेण । जीर्णवस्त्रेणैवातिदुर्गतकः अतिदरिद्रः सूच्यते परिचीयत इत्यर्थः । इह हेमन्त इत्यनेन अस्मिन्नेव समये त्वं परिचिनुहीति सख्या परिबोधपाटवं द्योत्यते । एवंविधं वस्त्रादिदौर्गत्यमनुभवन्तं तं किमिति बहुमन्यस इति सख्या समवबोध्यते । पुप्फुआ इति करीषाग्निवाचको देशी।
बह्वः क्लेशाः किल हेमन्तकालप्रवास इति प्रवासोद्यतं नायकं प्रवासादुपरमयितुं काचन शिशिरकालप्रवासिनोऽवस्थां वर्णयति
खरसिप्पिरउल्लिहिआइँ कुणइ पहिओ हिमागमपहाए । आअमणजलोल्लिअहत्थफंसमसिणाई अङ्गाइं ॥ ३० ॥ [तीक्ष्णपलालोल्लिखितानि करोति पथिको हिमागमप्रभाते। आचमनजलातिहस्तस्पर्शमसणान्यङ्गानि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org