________________
४ शतकम् ] संस्कृतगाथासप्तशती। योश्च परस्परं न विशेषः । केवलं नयनमुकुलीभावेनैव मिथोभेदः परिज्ञायत इत्यर्थः । नयनकुवलययोः सादृश्याद्विशेषाप्रतीतौ प्राप्तायां मुकुलीभावेन विशेषस्फूर्तिवशाद्विशेषकालङ्कारः । “भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषको" इति पीयूषवर्षलक्षणम् । [सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेषस्फूतौ तत्प्रतिद्वन्द्वी (सामान्यप्रतिद्वन्द्वी) विशेषकः] इति कुवलयानन्दः । अनेन च नयनयोः शोभातिशयो व्यज्यते । प्रियतमस्य दर्शनमात्रेणैवैतादृशं सुखं तदा समागमादिना कियत्स्यादिति प्रियं प्रति सख्याः प्रणयातिशयो ध्वन्यते । मूलोपात्तन दर्शनसुखरसेति रसपदेन न विशेषार्थपरिपोष इत्यनुपादानमत्र । ' आद्यस्य नयनपदेन द्वितीयस्य च कुवलयपदेनान्वयात्तस्या इति पदद्वयस्य न वैयर्थ्यमिति ध्येयम् ।' इति गङ्गाधरटीका ।
जलधरोल्लासमयः प्राकृट्समयः सर्वानेवानन्दयतीति धनसमयमभिस्तुवन्तं सहचरं प्रति नागरिको निजनैपुण्यमभिनयन्नाह
चिक्खिल्लखुत्तहलमुहकवणसिठिले पइम्मि पासुत्ते । अप्पत्तमोहणसुहा घणसमअंपामरी सवइ ॥ २४॥
[कर्दममग्नहलमुखकर्षणशिथिले पत्यौ प्रसुप्ते। ___ अप्राप्तमोहनसुखा घनसमयं पामरी शपति ॥] कर्दममग्नहलायोत्कर्षणशिथिलेऽथ निद्रिते पत्यौ।
अप्राप्तमोहनसुखा घनसमयं पामरी शपते ॥ २४॥ कर्दमे ममं यत् हलानं हलमुखं तस्योत्कर्षणेन शिथिले पत्यौ अनिच्छायामपि श्रमवशात् झटिति सुप्ते सति, न प्राप्तं मोहनसुखं सुरतसुखं यया एतादृशी पामरी कृषीवलभृत्यस्त्री घनसमयं शपति आक्रुश्यति । अन्यसमये यावानानन्द आसीत्सोप्यनेन लोपित इति वर्षासमयं निन्दतीत्यर्थः । वर्षासमये भवेद्भूयानानन्द इति प्रतीक्षमाणायाः पूर्वानन्दस्याप्यभावाद्विषादनमलंकारः-"इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम्" । एतेन वर्षासमये अन्येषामृतूनामपेक्षया अधिकसुखस्य परिवर्तेऽधिकदुःखमेव पामरगेहिन्या उपलभ्यत इति नागरिकेण सूच्यते । वास्तवे तु पत्युरॅहवर्तित्वेपि हालिकवध्वाः सुलभत्वं साधयन्त्या दूत्या विटं प्रत्युक्तिः । कर्दममनेत्युक्त्या हलवाहनसमये मध्ये मध्ये उपवेशनविश्रामोपि कर्दमममे स्थले दुर्लभ इति सूच्यते। ततश्च संपूर्ण दिनं यावदुपवेशनमात्र विश्राममप्यलभमानस्य हालिकस्य रात्रौ दिवसानुभूतपरिश्रमाधिक्येन गाढनिद्राक्रान्तत्वं ध्वन्यते । मोहनसुखेत्यनेन सुरतसुखं सा सम्यक्तया वेत्तीति सुखापेक्षिण्यास्तस्या अभिसरणीयत्वं ध्वन्यते । घनसमयमिति नागरपदविन्यासादस्ति तस्या अपि घनघटाविच्छुरितासु वर्षासु प्रवृद्धा भूयसी समुत्कण्ठेति तस्याः सुसाध्यत्वमभिव्यज्यते । कृषकस्य गृहे यो भृत्या कार्य करोति स एवात्र प्रायः पामरपदेन व्यवहियते । तथाच पामरीपदेन-अन्यसेवावश्यस्य तत्पतेर्न स्वातच्यं यद्धलवाहनकार्ये शैथिल्यं कुर्यादिति सुखसाध्यत्वं तद्गेहिन्याः सूच्यते । शपतीत्यनेन आक्रोशं विहाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org